पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
8
बालकाण्डः
नारदं प्रति वाल्मीकिप्रश्नः

मप्युपकृतिं बह्वीयसीं मन्यत इति कृतज्ञः । सत्यवाक्यः-[१]यथाश्रुतदृष्टार्थवक्ता । दृढव्रतः- आपद्यपि धर्माय परिगृहीतविशेषशैथिल्यरहितः ॥ २ ॥

 चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।
 विद्वान् कः कः समर्थश्च कश्चैकप्रियदर्शनः ॥ ३ ॥

 [२]'अर्तिलू' इत्यादिना इत्रप्रत्ययान्तो वृत्तसंपत्तिवाची चरित्रशब्दः। तस्माद्वायसादिवत्स्वार्थिकोऽण् । तेन को युक्तः ! सर्वभूतेषु-सर्वप्राणिषु । यतश्च निर्धारणम्" इति सप्तमी । कः-प्राणी- पुमान् हितः-सर्वस्मै हितः । ऐहिकामुष्मिकहितावहः । तथात्वं च भगवत एव समस्ति; यतो रावणस्यापि परलोकहित[३]मवाक्षीत् । [४]कश्चिदिह सर्वप्राणिष्वपि हितकरणशील इति हितशब्दयोगमावृत्तसर्वभूतशब्दस्याह-तदसत्-हितयोगे चतुर्थ्या भाव्यत्वात् । को विद्वान्-आत्मानात्मसकलपदार्थतत्त्वज्ञः । "विदेश्शतुर्वसुः" । सामर्थ्यं लौकिकव्यवहारे प्रजारञ्जनादौ चातुर्य, तद्वान् । [५] अतिकामसौन्दर्यतो नित्यसौमुख्यतश्च एकरूपतया प्रियं दर्शनं यस्य स तथा । एकं प्रति प्रियं दर्शनं यस्यासौ एकप्रियदर्शन इति कश्चित् । तेनानेन किं प्राशस्त्यं प्रतिपादितं; खदासादिकमेकं मुक्त्वा सर्वाप्रियत्वस्य प्रतिपादनात् ॥ ३ ॥


  1. यथादृष्टश्रुततस्वार्थ-ग.
  2. यद्यपि-वयः शब्दस्य प्रज्ञादिगणपाठान्तर्भावो दृश्यते न तु चरित्रशब्दस्येति न चरित्रशब्दादण्प्रसक्तिः ? न च प्रशादिराकृतिगणः । तथाऽपाठात् तथापि–आकृतिगणत्वमभिमन्य तथोक्तं बहुप्रयोगानुसारात । वस्तुतस्तु—'चरेर्वृत्ते' [६२२] इत्यौणादिकणित्रन् प्रत्ययान्तोऽयं स्वरस इति ॥
  3. मकार्षीत्-क.
  4. गोविन्दराजः-महेश-तीर्थों वा ।
  5. निष्काम-ग.