पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१ सर्गः]
5
अधिकारिनिरूपणम् (व्या)

महानर्थहेतुयोषिदासवाद्यसद्विषयवर्णनासन्मनुष्यस्तुत्यादिप्रतिपादकग्रन्थसन्दर्भविशेषार्थकः एकः काव्यशब्दः । अपरस्तु-वारि वहतीति वलाहक इतिवत् "क्रान्तं वेत्तीति कविः" इत्यतीन्द्रियतत्त्वार्थविदः- अनुग्रहाय तत्प्रवक्तारो व्यासादयः पृषोदरादिवत्साधुनानेन कविशब्देनोच्यन्ते । तस्येयं कृतिः-कर्म काव्यमिति ब्राह्मणादेराकृतिगणत्वात् कर्मणि ष्यञन्तः । तस्यास्य काव्यस्य चतुर्विधपुरुषार्थसाक्षात्साधनत्वेन सर्वप्रयत्नोपसंग्राह्यत्वात् रामायणस्य तथात्वस्य प्रागेव प्रतिपादितत्वात् इतरकाव्यकोट्यनभिनिवेशः ॥
 एवं विशिष्टविषयप्रयोजनवादिदं किमधिकारम् ? त्रैवर्णिकाधिकारम् । त्रिपदाविलासत्वात् ॥
 ननु त्रैवर्णिकस्य स्वकुलदैवतब्रह्मानुसन्धानस्य स्वकुलविद्ययैव सिद्धत्वात् किमेतेन ? उच्यते- पञ्चाङ्गसन्ध्यावन्दनाद्यनुष्ठान[१]रहितेन त्रैवर्णिकेन अम्बया ब्रह्मशक्त्यनुसन्धानं; प्रातर्मध्याह्नसन्ध्ययोश्चैव तयानुसन्धानं; समस्तवैश्वदेवप्राणाग्निहोत्राद्यनन्तरं पुनस्सायंसन्ध्यावन्दनपर्यन्तमम्बया ब्रह्मानुसन्धान(योगात्)म् । तत्र च काले तेषां भगवदनुसन्धानप्रयोजनं च भवति । अतिमानुषभगवद्रामचन्द्रचरितश्रवणेन प्रत्यक्ष सन्तोषभक्त्यतिशयपापक्षयादिश्च भवति । अपि चाम्बानधिकृतब्राह्मणीब्रह्मकुलदास सच्छूद्राणामपि पुण्यलोकादिप्राप्तिहेतुभगवच्छ्रवणं [२]सप्रयोजनं भवति । तदपीहाङ्गीकृतमेव-"जनश्च शूद्रोऽपि महत्त्वमीयात्" इति । एवं चतुर्णामाश्रममात्राधिकारम्, न सङ्कराधिकारम् , अम्बासम्बन्धिसम्बन्धस्याप्यभावात् ॥
 अथ काव्यविषयस्य रामचरितस्य काव्यस्य च प्रतिपाद्यप्रतिपादकभावस्सम्बन्धः । उक्तप्रयोजनस्य काव्यस्य च साध्यसाधनभाव-


  1. सहितेन इति स्यात्.
  2. सप्रयोजनमपि -ग.