पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
4
[बालकाण्डः
काव्यरूपस्यापि रामायणस्य उपादेयतमत्वम् (व्या)

शातिघोरांशस्य शक्तित्वाविशेषप्राप्तस्य शोधनेन दिव्यशक्तितासंपादनं प्रयोजनम् । देवीघोरांशं तच्छोघनं च संप्रदायविदो विदुः ॥
 [१]ननु किमस्ति यथाधीतमन्त्रस्य शोधनमपि ? किं न शृणोषि ? "अभि नो वीरो अर्वति क्षमेत । प्रजायेमहि रुद्र प्रजाभिः" इति यथाधीतमन्त्रस्य ब्राह्मणेन शोधनं क्रियते । 'त्वं नो वीरो अर्वति क्षमेथा इति ब्रूयान्नाभि न इति । अनभिमानुको हैष देवः प्रजा भवति । प्रजायेमहि रुद्रिय प्रजाभिः इति ब्रूयान्न रुद्रेत्येतस्यैव नाम्नः परिहृत्यै’ इत्याद्यम् । एवमेव श्रीमद्रहस्योपनिषदादौ शोधनादि । प्रयोजनाय [२]शोधनाद्युपायोप्युदेति । ततोऽस्ति । तत्र दशरथपुत्रप्रति[३]बन्धादिः प्रथमपादघोरांश[४]कृतः । राज्यापहारवन[५]वासादिः द्वितीयपादघोरांश[६]कृतः । सीतापहा[७]रादिस्तृतीयपादघोरांश[८]कृतः । किं बहुना ! सर्वमेव रामचरितं अस्मदादीनामम्बाक्षरार्थविद्योगिनामम्बाक्षरार्थसुप्रोतसुदर्शनं' आप्ततमशिष्याणां च । तत् स्थितं सार्थकत्वं व्याख्येयबीजम् ॥
 यच्चावादि-[९]काव्यकृतेरनुपादेयतेति-अत्र ब्रूमः-उभयथाऽस्ति-काव्यशब्दः-"कबृ-वर्णनस्तुत्योः" [१०]इत्यस्मादौणादिककि [११]प्रत्ययजनितकविशब्दादुत्पन्नः चित्तविकृतिजनिद्वाराऽगम्यगमनान्त-


  1. 'रौद्रिं रोहिणीमालभेताभिचरन्' इत्येतस्मिन् अभिचारकर्मणि विनियुक्तोऽयं मन्त्रः । अभिनो वीर इति संहितापाठस्थाने त्वं नो वीर इति पाठमेव शंसनकाले ब्रूयात् । अभि न इति पाठे, एष देवः रुद्रः प्रजा अभिलक्ष्य ताः श्रयिष्यामीति मन्वीत । तेन चानेनाभिचारेण स्वप्रजाक्षय एव स्यात्। त्वं न इति पाठे तु रुद्रः अनभिमानुको भवतीत्यर्थः । कलिकतामुद्रितपुस्तकरीत्या तु,अनभिमानुक इति स्थाने-अनभिमारुक इति पाठः, अभिमारुकः-नाशकः, त्वं इति पाठे एव रुद्रो नाशको न स्यादिति भावः ।
  2. शोधनाद्वायो व्यादेदिति?-ग.
  3. बन्ध्यादि-ग.
  4. कृतम्-ग.
  5. वासादि-ग.
  6. कृतम्-ग.
  7. रादितृती-ग.
  8. कृतम्-ग.
  9. काव्यत्वतोऽनु-ग.
  10. अस्तादेरौणा-ग.
  11. प्रत्ययात्-क.