पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१ सर्गः]
3
श्रीरामस्य ब्रह्मावतारत्वम् (व्या)

 यच्चावादि रामायणस्यामुष्मिकार्थसाधकत्वे प्रमाणाभाव इति-तदप्यसुष्ठु । 'इदं पवित्रं पापघ्नं' इत्यादि 'जनश्च शूद्रोऽपि महत्वमीयात्' [१]इत्यन्तैः श्लोकैरामुष्मिकानिष्टपरिहारेष्टप्राप्तिप्रकाशनस्य यथोचितैहिकार्थसाधकत्वस्य च सुस्पष्टमत्रैव श्रूयमाणत्वात् । तथा शृण्वत्रामायणं भक्त्या यः पादं पदमेव वा । स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा' इति शतकोटिप्रविस्तरब्राह्मालौकिकमूलरामायणवचनतो ब्रह्मलोकावाप्तेरतिप्रकाशत्वात् । तथा ग्रन्थान्तरे च सकलैहिकामुष्मिकफलसाधकत्वस्मरणाच्च ॥
 न च स्वस्मिन् स्वयमेव प्रमाणमिति न युज्यत इति - परमाप्तपरमर्षिप्रणीतत्वेन रामायणमात्रस्य प्रामाणिकत्वे सिद्धे स्वविषयकत्वे[२]ऽन्यविषयकत्वे[३] च तत्प्रतिपाद्यार्थस्य प्रमाणत्वात् । यथा सिद्धप्रामाण्यया श्रुत्या 'वाचा विरूपनित्यया' 'अनन्ता वै वेदाः' इत्यादिवाक्यैः प्रतिपाद्यमाने वेदनित्यत्वे भगवदहर्भेदवशात्तदुचितसन्निवेशविशेषं [४]जानात्येव, [५]सैव प्रमाणम् ॥
 अपि [६]चाम्बया ब्रह्मानुस[७]न्धानवशाद्ब्रह्मलोकावाप्तिवदम्बाविलासरामायणेन ब्रह्मलीलाविलासावतारवैभावानुसन्धानेन च विभूतिसंपत्तिरपि न्यायसिद्धा। 'देवो भूत्वा देवानप्येति' तथा 'देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि' इत्यादेश्च । ब्रह्मावतारो भगवान्राम इति च सुस्पष्टम् । प्रक्रमे पुत्रकामेष्टिना यज्ञेन सुप्रीतेन ब्रह्मणा स्वस्यैव तेजसः [८]स्वीयपुरुषद्वारा प्रदापितस्याविर्भावितलीलाविमहत्वात् । अन्ते च "रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति" इति ब्रह्मलोकप्राप्तेश्च सुस्पष्टत्वात् । भगवतोंऽशावतारत्वस्य च स्वशक्त्यं.


  1. इत्यादिभिः-क.
  2. त्वस्या-ग.
  3. त्वस्य-ग.
  4. जानन्त्येव-ग.
  5. स्वप्रमा-ग.
  6. अम्बावा-क.
  7. न्धानातू ब्रह्म-ग.
  8. यज्ञपुरुष-ग.