पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
2
बालकाण्डः
रामायणस्य व्याख्येयत्वम् (व्यां)

 भो भोः किमिदं रामायणं व्याख्येयं ? उत न ? यदि प्रयोजनं व्याख्येयम् ; यदि नो, न व्याख्येयम् । प्रयोजनमप्यैहिकमामुष्मिकं वा स्यात् । न तु कृषिवाणिज्यसेवादिना धनधान्यादिवदैहिकं किञ्चित्प्रयोजनं रामायणपाठात्पश्यामः । नाप्यामुष्मिकं ; [१]निरयं निस्तितीर्षुः स्वरारुक्षुर्मुमुक्षुर्वा [२]रामायणमाम्नेयात् इति श्रुतिस्स्मृतिर्वा न ह्यस्ति, पारलौकिके चार्थे तु एव प्रमाणम् ॥

 अपि च विशिष्यामुष्मिकश्रेयोऽर्थिमिरिदमनादर्तव्यं ; काव्यत्वात् । 'काव्यालापांश्च वर्जयेत्' इति स्मृतिघण्टाघोषः । काव्यता चास्याविवादा सर्वलोकस्य ॥

 अत्रोच्यते-यत्तावदवादि-निष्प्रयोजनत्वतो न व्याख्येयमिति-तदपेशलम् । एक[३]भुक्तनियमेन गृहोचितब्रह्मचर्येण श्रवणकाले (षु) वीटीचर्वणास [४] त्संभाषणसांसारिकव्यापारान्तरपरित्यागपूर्वं [५]गन्धपुष्पादि [६]पूजितरामायणार्थतत्त्वविन्निजाचार्यात्समग्रश्रद्धाभक्तयुपबृह्मिततया यथाविधि रामायणश्रवणतो मन्त्रायुर्वेदवदपरोक्षमेव सुपुत्रादिप्राप्तिमहारोग [७]विमोचनादीष्टप्राप्त्यनिष्टपरिहारयोरतिप्रसिद्धत्वात् ॥

 अपि च गृहक्षेत्रादिबलारोग्यादिबाह्यान्तरार्थसिद्धिद्वादश कोचितपल्लवैः तथा द्वेषभेदादिक्रियासिद्धिद्वादशकोचितपल्लवैश्च शास्त्रसिद्धैरुपेततया अम्बाया उपासने उक्तसिद्धीनां शास्त्रसिद्धत्वात् । अपरोक्षानुभवसिद्धत्वाच्च । अम्बाविलासभूतरामायणध्यानेनापि यथोक्तार्थसिद्धेर्न्यायप्राप्तत्वाच्च । कार्यभूतप्रकृतिरपि यथाकारणं यथाबलं तमोनिवृत्त्यादिप्रयोजन [८]करणम् ॥


  1. निरयात्तितीर्षुः-ग.
  2. भवान् रामा-ग.
  3. भक्ति-ग.
  4. द्भक्षण- क
  5. गन्धाक्षतादि-ग.
  6. पूजितात्-ग.
  7. विमोकादी-ग.
  8. कर एव ?-ग