पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्रीः ॥
॥श्रीरामचन्द्रपरब्रह्मणे नमः॥
श्रीमद्वाल्मीकिरामायणम्
श्रीमन्माधवयोगिविरचितया
अमृतकतकाख्यव्याख्यया युतम्


बालकाण्डः
प्रथमः सर्गः

 तपस्स्वाध्ययानिरतं तपस्वी वाग्विदां वरम् ।
 नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥ १ ॥

अमृतकतकव्याख्या

 [१]कालहस्तीशमेकाम्रनाथं वेदगिरीश्वरम् ।
 स्वमनः प्राण[२]देहान्त[३] स्स्थितांस्त्रीन्ब्रह्मणो भजे ॥
 हैरण्यगर्भं यत्तेजः श्रीप्रजेशावतारितम् ।
 चतुर्मुखचतुर्व्यूहं त्रिपदार्थं सदा भजे ॥
 अम्बात्र्यष्टाक्षरोल्लासत्र्यष्टश्लोकसहस्रकम् ।
 महाषोढात्मकाण्डं यत् तद्रामायणमाद्रिये ॥
  असङ्गतव्याकृतिपांसुपङ्किलं
   रामायणं तीर्थसमुद्धतामृतम् ।
  योगीन्द्रवाणी कतकाद्विपकिलं
   सर्वोपकारक्षममस्तु सर्वदा ॥


  1. वन्दे- क.
  2. देहात्म-क.
  3. स्थितांस्तान् - क.