पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
6
[बालकाण्डः
तपस्स्वाध्यायेत्यादिश्लोकव्याख्यानम्

स्सन्बन्धः । एवं समग्र[१]प्रवृत्त्यंशोपेतं रामायणं व्याख्येयं [२]प्रतिष्ठितम् ॥
 अथादिकविर्वाल्मीकिर्दिव्य काव्यकृतिशक्तये कृतकाष्ठसमाधिसाधितपरमादृष्टसुप्रीतभगवन्नियोगसमुपागतं देवर्षि नारदं दिव्यं काव्यनायकं पृच्छति स्म । पृष्टस्स यथावद्भगवन्मुखश्रुतं तद्दिव्यकाव्यविषयं प्रपञ्चश्रुतं तदीयचरितञ्चानुस्मृत्य संक्षिप्योपदिश्य अथ सरहस्योऽशेषोऽस्य विस्तरः स्वतः प्रतिभात्वित्यनुगृह्य यथागतं जगाम । ततस्तदनुग्रहस्मृतत्रिपदावलम्बनेन भगवत्प्रपञ्चितं रामचरितं सरहस्यं निरवशेषमनुस्मृत्य स्वयमपि त्रिपदावलम्बनेनैव चतुर्विंशतिसाहस्त्र्या समग्रहीत् ॥
 तस्यास्य दिव्यकाव्यस्याद्यसर्गो बाल्मीकेर्नारदस्योपदेशः । तत्र च 'नाष्पृष्टः कस्य चिह्नयात्' इति न्यायेनापेक्षितप्रश्नाक्षेपः-'तपस्स्वाद्धायेत्यादि--'श्रुत्वा चैतत्' इत्यन्तो ग्रन्थः । अत्र तपस्त्वेन श्रुतः स्वाध्यायः तपस्स्वाध्यायः । श्रूयते च तथा--'तप एव तत्तप्यते । तपो हि स्वाध्यायः' इति । उक्तश्रुत्यर्थसिद्धस्वाध्यायस्य तस्त्वमापस्तम्बश्च स्मरति“ तपस्स्वाध्याय इति ब्राह्मणम् । तत्र श्रूयते 'तपो हि स्वाध्यायः' इति" इति । [३]स्वाध्यायश्चाप्रायत्यानध्ययनकालदेशादिपरिहारादिनियमोपेततया स्वशाखाध्ययनम् । तस्मिन्निरतः तदभ्यासनिरत इति यावत् । [४]अत्र तपश्च स्वध्यायश्च तपस्स्वाध्यायौ तयोर्निरत इति द्वंद्वस्तूपेक्ष्यः । गौणतपोविशिष्टैकपरपुंविशेषप्रसिद्धमुनिपुङ्गवशब्देनैव तपस्सम्पत्तिमत्तायास्सिद्धत्वात् । [५]अन्वयेन मृदुमतिसौकर्याय व्याकुर्मः । वाग्विदां स्वरूपतोऽर्थतश्च शब्दब्रह्मतत्त्वविदां


  1. प्रवृत्तयङ्गोपेतं-क.
  2. प्रतिष्ठितं भवति-ग
  3. अप्रायत्यं-आलस्यं अनादरो वा.
  4. गोविन्दराजस्येदं व्याख्यानम्.
  5. अन्वयमुखेन-ग.