पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
526
[बालकाण्डः
अयोध्यावासः

 मनस्वी-अनुकूलमनस्कः । अतः तद्गतः-तया सीतया अभिगतः-नित्यसेव्यमानः; आस्थान्यवस्थानादिना असन्निधानेऽपि तस्य हृदि तया नित्यं समर्पितः-सततोत्कण्ठितो भवति ॥ २४ ॥

 प्रिया तु सीता रामस्य दाराः [१]पितृकृता [२] इति ॥ २५ ॥
 [३]गुणाद्रूपगुणाच्चापि प्रीतिर्भूयोऽभ्यवर्धत ।

 सीता रामस्य पितृकृता दारा इति तु विशिष्य प्रिया भवति । उत्तमस्त्रीत्वादेव स्वतः प्राप्ता प्रीतिस्सीतायां पितृकृतत्वेन बहुमाननास्पदभूता चाभूदित्यर्थः । न केवलं पितृकृतेति प्रीतिः, अपि तु गुणात्-इष्टशिष्टहितकारित्वादिपातिव्रत्यगुणात् । रूपं-आत्मीयनिस्तुलाधिकसौन्दर्यात्मक-गुणस्तथा । भूयः-अभ्यधिकं रामस्यास्यां प्रीतिरवर्धत ॥२५॥

 तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते ॥ २६ ॥
 अन्तर्जातमपि व्यक्तं आख्याति हृदयं हृदा ।

 तस्याश्च हृदये भर्ता रामः गुणाद्रूपगुणाच्च द्विगुणं परिवर्तते स्म । उभयोः परस्परेङ्गितज्ञानं स्नेहमूलकं प्रदर्श्यते--अन्तरित्यादि । तस्य रामस्यान्तर्जातमपि हृदयं-हार्दाभिप्रायं मैथिली हृदा-स्वहृदयेन ज्ञात्वा भूयः-अभ्यधिकं व्यक्तं विशेषेणैव एवमेवेति विविच्य आख्याति एवं सोऽपि सीतायाः ॥ २६ ॥


  1. अत्र पितृपदेन दशरथो विवक्षितः । अथवा 'इयं सीता मम सुता' इत्यादिना सीतायाः जनकेन दानात् पिताऽत्र सीतापिता विवक्षितः । सीताविवाहस्य स्वयंवरत्वव्यावृत्तये इदं विशेषणम् । यद्यपि अयोध्याकाण्डान्ते-अनसूयया सीतां प्रति तत्स्वयंवरवृत्तान्त एव पृष्टः, अथापि सीता 'मम पित्रा त्वहं दत्ता' इत्येव प्रत्यवोचत् । एवञ्च सीताविवाहः वीर्यशुल्कप्रधानः गौणः स्वयंवर इति ॥
  2. इव-ड.
  3. एतदनन्ततरं-तथैव रामस्सीताया प्राणेभ्योऽपि प्रियोऽभवत् । हृदयं त्वेव जानाति प्रीतियोगं परस्परम् ॥ अधिकम्-ड.