पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७७ सर्गः]
525
 

 चकार रामो धर्मात्मा प्रियाणि च हितानि च ।
 मातृभ्यो मातृकार्याणि [१]कृत्वा परमयन्त्रितः ॥ २१ ॥
 गुरूणां गुरुकार्याणि काले कालेऽन्ववैक्षत ।

परमं-अत्यन्तं यन्त्रितः-श्रुतिस्मृतिमर्यादानतिलंघी । गुरुकार्याणीति । गुरूचितशुश्रूषादिकार्याणीति यावत् ॥ २१ ॥

 एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तथा ॥ २२ ॥
 रामस्य शील[२]वृत्तेन सर्वे विषयवासिनः।

 तथा नैगमाः-वणिजः। विषयवासिन इति । प्रीता इति विपरिणामः ॥ २२॥

 तेषामतियशा लोके रामः सत्यपराक्रमः॥ २३ ॥
 स्वयम्भूरिव भूतानां बभूव गुणवत्तरः।

 तेषां चतुर्णां पुत्राणां मध्ये सत्यपराक्रमः राम एव लोके गुणवत्तरः-अतिशयेनानन्तकल्याणगुणसम्मतो बभूव । यथा भगवान् स्वयम्भूः देवासुरान्तसकलसंसारिणां साधारण्येन निस्तुलाधिकजाग्रन्निर्मलनिसर्गभूमविद्यैश्वर्यानन्दवैभवेन सज्जनसाधारणनिरयभरणस्वर्गप्रापणपरमापवर्गान्तसकलपुरुषार्थसाक्षात्साधकत्वेन सर्वसम्मतसर्वोपसेव्यानन्तकल्याणगुणो भवति, उपादानत्वेन सर्वात्मकत्वाच्च सर्वसम्मतसच्चिदानन्दतत्त्वतस्वरूपत एवाविवादतस्सर्वलोकसम्मतविद्यैश्वर्यादिगुणो भवति तथेत्यर्थः ॥ २३ ॥

 रामस्तु सीतया सार्धं विजहार बहूनृतून् ॥ २४ ॥
 मनस्वी[३] [४]तद्गतस्तस्या नित्यं हृदि समर्पितः ।


  1. राज्ञा-ङ.
  2. वृत्ताभ्यां-ङ.
  3. तस्यां गतः-इति वाऽर्थः.
  4. तद्गतमनाः-ङ.