पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
524
[बालकाण्डः
अयोध्यावासः

 भरतं कैकयीपुत्रमब्रवीद्रघुनन्दनः ।
 अयं केकयराजस्य पुत्रो वसति पुत्रक !॥ १६ ॥
 [१] त्वां नेतुमागतो वीर ! युधाजिन्मातुलस्तव ।

 मातुलस्तवेति । अतो गत्वाऽऽगच्छेति शेषः ॥ १६ ॥

 [२]श्रुत्वा दशरथस्यैतद्भरतः कैकयीसुतः ॥ १७ ॥
 गमनायाभिचक्राम[३]शत्रुघ्नसहितस्तदा ।

 एतदिति । वाक्यमिति शेषः ॥ १७ ॥

 आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम् ॥ १८ ॥
 [४]मातॄश्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ ।

 [५]अक्लिष्टं-कस्यापि दुःखरहितं यथा भवति तथा कर्तुं शीलमस्त्यस्येति तथा ॥ १८ ॥

 गते च भरते रामो लक्ष्मणश्च महाबलः ॥ १९ ॥
 पितरं देवसंकाशं पूजयामासतुस्तदा ।
 पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः ॥ २० ॥


  1. एतदनन्तरं ‘प्रार्थितस्तेन धर्मज्ञ मिथिलायामहं तदा । ऋषिमध्ये तु तस्य त्वं प्रीतिं कर्तुमिहार्हसि ॥ इत्यधिकम्-ङ.
  2. एतदनन्तरं-अभिवाद्य गुरुं रामं परिष्वज्य च
    लक्ष्मणम् । इत्यधिकम् ङ.
  3. १८ सर्गे रामलक्ष्मणयोरिव भरतशत्रुघ्नयोः सौभ्रात्रातिशयः प्रत्यपादि.
  4. एतदनन्तरं-युधाजित्प्राप्य भरतं सशत्रुघ्नं प्रहर्षितः ।
    स्वपुरं प्राविशद्वीरः पिता तस्य तुतोष ह । इदमधिकम्-ङ.
  5. 'अक्लिष्टव्रतधर्मज्ञः' इत्यादाविव विनैव क्लेशं उत्साहेनानायासतः सर्वं कर्तुं समर्थ इति वाऽर्थः.