पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७७ सर्गः]
523
कस्यचित्त्वथ कालस्य भरतः केकयान् ययौ

 ततः सीतां महाभागामूर्मिलां च यशस्विनीम् ॥ ११ ॥
 कुशध्वजसुते चोभे जगृहुर्नृपपत्नयः ।
 मङ्गला[१]लपनैश्चैव शोभिताः क्षौमवाससः ॥ १२ ॥
 [२]देवतायतनान्याशु [३]सर्वास्ताः प्रत्यपूजयन् ।

 मङ्गलार्थमालपनमाशीर्वादः तैरुपलक्षिता इति शेषः । देवतायतनं पुरदैवत[४]गृहदैवतायतनवेदिः । प्रत्यपूजयन्निति । प्रणमन्ति स्म ॥

 [५]अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा ॥ १३ ॥
 [६]रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः ।
 कृतदाराः [७]कृताज्ञाश्च सधनाः ससुहृज्जनाः ॥ १४ ॥

 अभिवादार्हाः-अभिवाद्याः । कृताज्ञाः-अनुष्ठितपितृनियोगाः । सधनाः-स्वस्वभोगोपयुक्तजीवाजीवधनसहिताः ॥ १४ ॥

 [८]शुश्रूषमाणाः पितरं [९]वर्तयन्ति नरर्षभाः ।

 शुश्रूषमाणाः-सर्वकृत्येषु पितरं संपृच्छयमानाः । वर्तयन्ति-पित्रुक्तमेवानुवर्तयन्ति स्म ॥ १४ ॥

 [१०]कस्यचित्त्वथ कालस्य राजा दशरथः सुतम् ॥ १५ ॥

 कस्यचित्कालस्येति । अत्यय इति शेषः ॥ १५ ॥


  1. लपनैर्होमैः-ज., लंभनैश्चैव-ङ.
  2. देवतायतनानि-गृहदेवतानामर्चागृहाणि, प्रत्यपूजयन्-गन्धपुष्पादिभिरपूजयन् ।
    आयतनपूजामात्रे स्त्रीणामधिकारादिति भावः-गो.
  3. यथार्हे-ङ.
  4. ग्राम-ग.
  5. एतदनन्तरं 'स्वं स्वं गृहमथाऽऽसाद्य कुबेरभवनोपमम् । गोभिर्धनैश्च धान्यैश्च तर्पयित्वा द्विजोत्तमान्-ङ.
  6. एतदनन्तरं-कुमाराश्च महात्मानो वीर्येणाप्रतिमा भुवि । अधिकम्-ङ.
  7. कृतास्त्राश्च-ङ.
  8. एतदनन्तरं-कालेकाले तु नीतिशास्तोषयन्तो गुरुं गुणैः । अधिकं-ङ.
  9. वर्तयन्ति-वर्तन्ते, णिजर्थोऽ-विवक्षितः-शि.
  10. एतदनन्तरं-अभिवादयितुं प्राप्तं श्यामं कमललोचनम् । अक्लिष्टकारिणं शूरं परसैन्यविमर्दनम् । विनयं देहयोगेन संप्राप्तमिव संस्थितम् । अधिकम्-ङ.