पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७७ सर्गः]
527
रामश्च सीतया सार्धं रेमे द्वादशवत्सरान्

 तस्य भूयो विशेषेण मैथिली जनकात्मजा ॥ २७ ॥
 देवताभिः समा रूपे सीता श्रीरिव रूपिणी ।

 देवताभिस्समेति । मानुषावतारेऽपीति शेषः । अत एव श्रीरिवेति उपमाऽपि श्रिया एव सत्या। अत एवोत्तरश्लोकोपमाऽप्युभयोः ॥

 तया स राजर्षिसुतोऽभिरामया ।
  समेयिवानुत्तमराजकन्यया
 अतीव रामः शुशुभेऽतिकामया
 विभुः [१]श्रिया विष्णुरिवामरेश्वरः ॥ २८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां
संहितायां बालकाण्डे सप्तसप्ततितमः सर्गः

समाप्तश्व बालकाण्डः


[२]अदुःखमानः (२८ १/२) सर्गः ॥२८ १/२ ॥

 बालकाण्डे तु सर्गाणां कथिता सप्तसप्ततिः ।
 श्लोकानां द्वे सहस्रे च साशीतिशतकद्वयम् ॥

इति श्रीमद्रामायणामृतकतकटीकायां श्रीमन्माधवयोगिविरचितायां
बालकाण्डे सप्तसप्ततितमः सर्गः

बालकाण्डव्याख्या समाप्ता

 यस्सर्वोपनिषद्व्याख्या मङ्गलाभरणं व्यधात् ।
 [३]ब्रह्म जिज्ञासतां तस्मै नमो माधवयोगिने ॥


  1. अमरेश्वर:-विष्णुः श्रियेव, मूर्तिभेदेनोपमानत्वम्-गो.
  2. अजरमानः- ग.
  3. क पुस्तके अन्ते इदं पद्यमधिकं दृश्यते-
    दयानिधे राघव रामचन्द्र निरस्य पापानि ममाखिलानि ।
    त्वय्येव भक्तिं सुदृढां प्रयच्छ सैव प्रसूते सकलानभीष्टान् ॥