पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
520
[बालकाण्डः
अयोध्यावासः
अथ सप्तसप्ततितमः सर्गः
[अयोध्यावासः ]

 गते रामे प्रशान्तात्मा रामो दाशरथिधर्नुः ।
 [१]वरुणायाप्रमेयाय ददौ हस्ते[२]ससायकम् ॥१॥

 अथ संपूर्णकामतया दशरथस्य पुरप्रवेशादिः-गते राम इत्यादि । परशुराम इति यावत् । हस्ते-स्वहस्ते स्थितं सायकं धनुश्च वरुणाय ददौ, न्यासात्मनेति शेषः । वरुणस्याप्रमेयत्वं -"भृगुर्वै वारुणिः । वरुणं पितरमुपससार' इत्यादिना साक्षात् शुद्धब्रह्मविद्याप्रवर्तकदेशिकेन्द्रत्वादप्रमेयवैभवत्वम् । तस्य च सत्त्वप्रधानतो ब्रह्मण आन्तरमूर्तित्वात् ब्रह्मणा रामेणाप्ते एतस्मिन् प्रदानम् । एवं वरुणादिमहामहादेवतानामपि स्वेष्टविनियोजकत्वेन भगवान् रामो ब्रह्मा स्वावगमः । वरुणायेत्यादैा षष्ठ्यर्थे चतुर्थ्याश्रये तु पाङ्कोऽर्थः ॥ १ ॥

 अभिवाद्य ततो रामो वसिष्ठप्रमुखानृषीन् ।
 [३]पितरं [४]विह्वलं दृष्ट्टा प्रोवाच रघुनन्दनः ॥ २ ॥

 विह्वलः-परवशः ॥ २ ॥


  1. वरुणाय-देवैस्सह कौतुक दर्शनार्थमन्तरिक्षे स्थिताय-ति, अप्रमेयाय-अन्यैः अयं वरुण इति तस्मिन् काले प्रमातुमशक्याम-शि. अप्रमेयाय-अदृश्याय-गो.। अत्र ससायकं धनुरिति वाऽन्वयः.
  2. महायशा:-ङ.ज.
  3. विह्वलं-परवशं । अनेन परशुरामेण कृतां परत्वसूचिका स्तुतिं वरुणाय धनुर्दानं च दशरथो न ज्ञातवानिति गम्यते-गो.धनुर्दानवृत्तान्तस्य मायया तिरोधानमन्यान् प्रति-ति. अत्र विह्वलत्वं भयकृतमिति युक्तम् । पूर्वं परशुरामात् भयाविष्करणात्, 'गतो राम इति श्रुत्वा हृष्टः' इत्यनन्तरमेवोक्तेश्च.
  4. विकलं-ङ.ज.