पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७७ सर्गः ]
521
ततः प्रस्थाय ते सर्वे स्वयोध्यां प्राविशन् पुरीम्

 जामदग्न्यो गतो रामः प्रयातु चतुरङ्गिणी ।
 [१] अयोध्याभिमुखी सेना त्वया नाथेन पालिता ॥ ३ ॥

 चतुराङ्गणीति । 'प्रातिपदिकान्तनुम्' इत्यादिना णत्वम् ॥ ३ ॥

 रामस्य वचनं श्रुत्वा राजा दशरथः सुतम् ।
 बाहुभ्यां सम्परिष्वज्य मूर्ध्नि चाघ्राय राघवम् ॥ ४ ॥
 गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः ।
 पुनर्जातं तदा मेने पुत्रमात्मानमेव च ॥ ५ ॥
 चोदयामास तां सेनां, जगामाशु ततः पुरीम् ।

 तां सेनां-प्रथमं क्षुभितां पश्चात् प्राप्ताश्वासां चेत्यर्थः । प्रतिबन्धाभावात् पुरीं चाशु जगाम ॥ ५ ॥

 [२]पताकाध्वजिनीं रम्यां तूर्योद्धुष्टनिनादिताम् ॥ ६ ॥
 [३][४]सिक्तराजपथां रम्यां प्रकीर्णकुसुमोत्कराम् ।

 अस्यैव विस्तरः-पताकेत्यादि । पताका-ध्वजपटः । ध्वजः-दण्डः। पताकान्विता ध्वजास्सान्त अस्या इति तथा । उद्धुष्टमिति भावे निष्ठा ॥६॥


  1. एतदनन्तरं-संदिशस्त्र महाराज सेनां त्वच्छासने स्थिताम् । शासनं काङ्क्षते सेना चातकालिर्जलं यथा ॥ ४ ॥ इत्यधिकं.ङ.
  2. यद्यप्यत्र पताका-ध्वजपटः, ध्वजः-दण्डः इति गोविन्दराजैरपि व्याख्यातम्, अथापि तैरेव अन्यत्र (अयो-६-२३) ध्वजाः-सचिह्नाः, पताकाः-चिह्नरहिता; इति व्याख्यातम् । तदेवात्रापि युक्तं ग्रहीतुमिति ॥ (ह्रस्वदीर्घध्वजभेद इत्यप्याहुः- गो.)
  3. रम्यामिति पुनरुक्तिः तत्तविशेषणरमणीयत्वाभिप्रायेण-गो. सिक्तैः राजपथे: रम्यां शि. सिक्तेन राजपथेन आ-समन्तात् रम्यां-ति.
  4. सिक्तराजपथैरभ्यां, सिक्तराज-पथारम्यां-ज.