पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७६ सर्गः]
519
रामं परशुरामश्च स्तुत्वाऽगच्छत् यथाऽऽगतम्



 तथा ब्रुवति रामे तु जामदग्नये प्रतापवान् ।
 रामो दाशरथिःश्रीमांश्चिक्षेप शरमुत्तमम् ॥ २१ ॥
 स हतान् दृश्य रामेण स्वांल्लोकांस्तपसाऽऽर्जितान् ।
 जामदग्न्यो जगामाशु महेन्द्रं पर्वतोत्तमम् ॥ २२ ॥

 सः-जामदग्नयः शरक्षेपानंतरं तपसाऽऽर्जितान् स्वान् लोकान् रामेण तेन शरेण हतान्-रुद्धान् दृश्य–दृष्टा महेन्द्रं जगाम ॥

 ततो वितिमिराः सर्वा [१]दिशश्चोपदिशस्तथा ।
 सुराः सर्षिगणा रामं प्रशशंसु[२]रुदायुधम् ॥ २३ ॥
 रामं दाशरथिं रामो जामदग्नयः प्रशस्य च ।
 [३]ततः प्रदक्षिणं कृत्वा जगामात्मगतिं प्रभुः ॥ २४ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे षट्सप्ततितमः सर्गः


 रामं प्रदक्षिणं कृत्वेति । रामे सम्यक् समुत्पन्नब्रह्मबुद्धित्वादपेतबालक्षत्रियबुद्धित्वात्स्वयं ब्रह्मर्षिवृद्धोऽपि सन् प्रदक्षिणादिकमकरोत् । आत्मगतिं-आत्मत्वेन गतिरात्मगतिः-रामः मदन्तर्यामी भगवान् आदिगुरुर्ब्रह्मैवेति तत्त्वज्ञनं प्राप्तवान् । आत्मगति-स्वस्थानं च जगामेत्यर्थः । प्रभुरिति । ब्रह्मज्ञत्वेन सर्वलोकप्रभुत्वम् । भार (२४) मानः सर्गः ॥ २४ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे षट्सप्ततितमः सर्गः


  1. दिशश्च विदिश-ङ.
  2. र्मुदान्विताः-ङ.ज.
  3. अन्तर्यामित्वेन ज्ञानात् प्रदक्षिणकरणं, क्षत्रियत्वाच्च तस्य प्रणत्यकरणं कायेनेति बोध्यम्-ति.। प्रकृष्टा-सर्वोत्तमा दक्षिणा-आत्मसमर्पणरूपा यस्मिन् तत् कर्म कृत्वा-शि.