पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
518
[बालकाण्डः
परशुररामप्रतिष्टम्भनम्

भूमविराडुपग्रहमिति यावत् । कुत एवं निश्चयः ? इत्यतः-धनुष इत्यादि । अस्येति । वैराजस्येत्यर्थः । परामर्शः-ग्रहणाकर्षणा-दिव्यापारः ॥ १७ ॥

 एते सुरगणाः सर्वे निरीक्षन्ते समागताः ।
 त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ॥ १८ ॥

 आहवे अप्रतिद्वन्द्वं-अस्मद्रूपप्रतिभटरहितं सर्वदेवा निरीक्षन्ते –पश्यन्ति ॥ १८ ॥

 न चेयं मम काकुत्स्थ ! व्रीडा भवितुमर्हति ।
 त्वया त्रैलोक्यनाथेन यदहं विमुखीकृतः ॥ १९ ॥

 इयं त्वद्विषये अशक्तिः मम व्रीळा-व्रीळावहा भवितुं नार्हति । कुत इत्यतः-त्वयेत्यादि । विराडादिपदत्रयनाथेनास्मदादेस्तथा तथा शक्तिप्रदेन ब्रह्मणा त्वया स्वयं दत्तशक्तेः पुनः स्वस्मिन्नेव संयोजनेन विमुखीकृतः-अशक्तः कृतः, कुष्णेनार्जुन इव, न तु अन्येन प्राकृतेन संसारजीवकोट्यन्तर्गतेन; तदा किल व्रीळा । तत्तत्स्वामिना तत्तत्स्वे गृहीते तत्तन्न्यासरक्षिणां का व्रीळा इत्याशयः ॥ १९ ॥

 शरमप्रतिमं राम ! मोक्तुमर्हसि सुव्रत !
 [१]शरमोक्षे गमिष्यामि महेन्द्रं पर्वतोत्तमम् ॥ २० ॥

 अतो लोकेश्वरस्त्वं शरं मल्लोकप्रतिबन्धाय मोक्तुमर्हसि । शरमोक्षे सति दत्तशरगतिरहं [२]अप्रतिबद्धो महेन्द्रं गमिष्यामि ॥ २० ॥


  1. पापस्य तपसा दग्धत्वात्, पुण्यस्य च शरमोक्षण फलप्रतिबन्धे जीवन्मुक्तो भूत्वा गमिष्यामीत्यर्थः-ति.
  2. अप्रतिबन्धः-ग.