पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७६ सर्गः]
517
दृष्ट्वा परशुरामस्तत् भग्नदर्पोऽभवत्तदा

इत्याशयः । तदेति । यदा दत्तं, यदा च न वस्तव्यमित्युक्तं तदारभ्येत्यर्थः । पृथिव्यां न वस इति सम्बन्धः । कुतः पृथिव्यां न वस इत्यतः- कृतेत्यादि । हि शब्दः प्रसिद्धौ । यतस्सर्वप्रसिद्धतया भूः कश्यपस्य स्वत्त्वेन कृता, न वत्स्यामीति च प्रतिज्ञा च कृता, तस्मादेवेत्यर्थः ॥ १४ ॥

 [१]यदीमां मद्गतिं वीर ! हन्तुं नार्हसि राघव !
 [२]मनोजवं गमिष्यामि महेन्द्रं पर्वतोत्तमम् ॥ १५ ॥

 यदेवमतो-यदीत्यादि । नार्हसि यदि-इमां मद्गतिं च त्वं हन्तुन्नार्हसि-यदि नेच्छसीति यावत्, ततो मनोजवं पादमास्थाय महेन्द्रं पर्वतोत्तमं-केरळभूरूपं गमिष्यामि । स तु समुद्रान्मयाऽऽवासाय याचितः पश्चात् ॥ १५ ॥

 लोकास्त्वप्रतिमा राम ! निर्जितास्तपसा मया ।
  [३] जहि तान् शरमुख्येन मा भूत्कालस्य पर्ययः ॥ १६ ॥

 अतो ये लोका निर्जितास्ताञ्जहि ॥ १६ ॥

 [४].[५]अक्षयं मधुहन्तारं जानामि त्वां सुरेश्वरम् ।
 धनुषोऽस्य परमाशत् स्वस्ति तेऽस्तु परंतप !॥ १७ ॥

 त्वां तु लोकदानप्रतिबन्धस्वतन्त्रं 'उतामृतत्वस्येशानः' इति श्रुतिप्रसिद्धं विराजं ब्रह्माणमेव जानामि इत्याह–अक्षयमित्यादि ।

  1. तदिमां, तामिमां त्वं गतिं -ङ. ज.
  2. महेन्द्रं मनोजवं यथा स्यात् तथा गमिष्यामि-शि.
  3. अत्र पुण्यार्जितलोक-हननाभ्यनुशयाऽस्य तत्त्ववित्त्वं व्यङ्ग्यम् । रामस्य लोकदानप्रतिबन्धयोः स्वातन्त्र्यदर्शनेन परेशत्वबोधनं च-ति. लोकहनननं नाम लोकदानप्रतिबन्धः- गो.
  4. 'उतामृतत्वस्ये-शानः' इति श्रुतिप्रसिद्धं ब्रह्म स्वमित्याह—अक्षय्यमिति-ति
  5. अक्षय्यं-ङ.