पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
516
[बालकाण्डः
परशुरामप्रतिष्टम्भनम् ॥

 [१]तेजोभिर्गतवीर्यत्वाज्जामदग्नयो जडीकृतः ।
 [२]रामं कमलपत्राक्षं मन्दं मन्दमुवाच ह ॥ १२ ॥

 उक्तश्लोकार्थ एव विवरणरूपेणोच्यते पुनः-तेजोभिरित्यादि । रामसङ्क्रान्तैर्हेतुभिरिति शेषः । उवाच हेति । शरगतिप्रश्नोत्तरमिति शेषः ॥

 [३]कश्यपाय मया दत्ता यदा पूर्वं वसुन्धरा ।
 विषये मे न वस्तव्यमिति मां कश्यपोऽब्रवीत् ॥ १३ ॥

 विषय इति । मे-मह्यं दत्ते विषये-कृत्स्नवसुन्धरालक्षणे देशे त्वया न वस्तव्यमिति मां कश्यपोऽब्रवीत्, प्रजाभीत्यादि-निवृत्तिप्रयोजनाय ॥ १३ ॥

 सोऽहं[४] गुरुवचः कुर्वन् पृथिव्यां न वसे[५]निशाम् ।
 कृता प्रतिज्ञा काकुत्स्थ ! कृता भू: कश्यपस्य हि ॥

 यदेवमतः-सोहं गुरुवचः-कश्यपवचः अनुतिष्ठन् पृथिव्यां निशां न वसे, छान्दसस्तङ्, रात्रौ पृथिव्यां न वसाम्यद्यापि । अहन्यावश्यककार्यायागत्य गमनमात्रं दीक्षितपत्न्या इवादोष


  1. तेजोभिऽहत-ध.
  2. एतदनंतरं राम राम महाबाहो श्रुणु राम मयेरितम् । राजसूये कृते पूर्व यज्ञे
    दशरथात्मज ॥ इत्यधिकं-ङ.
  3. कश्यपस्थाने सर्वत्र काश्यपेत्यपि पाठः.
  4. ब्रह्माण्डपुराणे ३-४७ तमेऽध्याये 'तेषामनुमते कृत्वा कश्यपं गुरुमात्मनः । वाजिमेधं ततो राजन् आजहार' इति दर्शनात् काश्यपस्य स्वगुरुत्वेनाभिधानम्
  5. ब्रह्माण्डपुराणादौ-"आहूय भृगुशार्दूलः सशौलवनकाननाम्। कश्यपाय ददौ सर्वामृते तं शैलमुत्तमम् । आत्मनः सन्निवासार्थं तं रामः पर्यकल्पयत्" इति दृश्यते । एतेन परशुरामः सर्वक्षत्रियविनाशपरिहाराय कश्यपेन निष्कासितः । अथापि स्वदेशे गमनागमनादिकं न प्रतिषिद्धवान् । यदाकदाचित् कार्यार्थमन्त्रागतोऽपि परशुरामः बहुदूरादपि प्रभाववशात् रात्रेः पूर्वं महेन्द्रं प्रति प्रतिनिवर्तमान आस । एतादृशगत्तिसामर्थ्यमेव 'मनोजवं गमिष्यामि' इत्यनेन सूचितम् । एतदेव च गतिशब्दे- नास्मिन् प्रकरण उच्यत इति भाव्यम् ॥