पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७५ सर्गः]
511
धनुषो वैष्णवस्यास्य त्वारोपयितुमाह्वयत्

 न्यस्तं विष्णुधनूरूपं शस्त्रं येन स तथा । तपोबलसमन्वितेऽपि प्राकृतां बुद्धिमास्थितः सन् अर्जुनः-कार्तवीर्यार्जुनो [१] रुद्रः मृत्युं अस्मत्पितुर्विदधे ॥ २३ ॥

 [२]वधमप्रतिरूपं तु पितुः श्रुत्वा सुदारुणम् ।

 प्रतिरूपं-न्याय्यम् ॥ २४ ॥

  [३]क्षत्त्रमुत्सादयन् रोषात् [४] जातं जातमनेकशः ॥ २४ ॥
 पृथिवीं [५]चाखिलां प्राप्य कश्यपाय महात्मने ।
 यज्ञस्यान्ते तदा राम दक्षिणं [६][७]पुण्यकर्मणे ॥ २५ ॥

 प्राप्येति । स्वबलेनेति शेषः । पुण्यकर्मण इति । यज्ञमयपुण्यकर्मसाद्गुण्यार्थमित्यर्थः ॥२५ ॥

 [८]दत्त्वा महेन्द्रनिलयस्तपोबलसमन्वितः ।
 श्रुतवान् धनुषो भेदं ततोऽहं द्रुतमागतः ॥ २६ ॥

 महेन्द्रः-महेन्द्रपर्वतः ॥ २६ ॥

 तदिदं वैष्णवं राम ! पितृपैतामहं महत् ।
 क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व धनुरुत्तमम् ॥ २७ ॥


  1. इदं पदं-ग. पुस्तके नास्ति.
  2. एतदनंतरं अमर्षो मे महानासीन् सर्वलोकभयप्रदः। शास्त्रतोग्निर्हुतो विप्रैर्यथा हुतमुखे प्रभुः । अशक्नुवन् स तं क्रोधं धनुर्गुह्य परं शुभम् । इत्यधिकं- ङ.
  3. क्षत्रमुत्सादयम्-ड. च. ज. क्षत्रमुत्पाटयन्-ड.
  4. जातं जातं क्षत्रमुस्सादयन् अखिला पृथिवीं प्राप्य इत्यन्वयः.
  5. चाखिलां प्रादां-ङ.
  6. पुण्यकर्मणे महात्मने कश्यपाय-शि.
  7. पुण्यकर्मणां-ङ.
  8. एतदनन्तरं 'स्थितोऽस्मि तस्मिस्तप्यन्वै सुसुखं सुरसेविते। अद्य तूत्तमवीर्येण त्वया राम महाबल' इत्यधिक-ड..