पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
510
[बालकाण्डः
वैष्णवधनुःप्रशंसा



 इदं च वैष्णवं राम ! धनुः परपुरंजयम् ।
 ऋचीके भार्गवे प्रादाद्विष्णुः [१]स्वन्यासमुत्तमम् ॥ २१ ॥

 एतवतानूक्तं भार्गवेण तु रौद्रं धनुः शिथिलप्रायं जनकवंशे स्थितं । न तु तद्भञ्जनमात्रतस्तव वीर्याधिक्यामिति । तर्हि क्व मे वीर्यशुद्धिरित्यतः-इदञ्चेत्यादि । परपुरञ्जयमिति । असंज्ञायामप्यार्षः खच् । भार्गवः-भृगुपुत्रः। स्वस्य-स्वीयस्य न्यासः-सन्यासः ॥

 ऋचीकस्तु महातेजाः पुत्रस्याप्रतिकर्मणः ।
 पितुर्मम ददौ दिव्यं जमदग्नेर्महात्मनः ॥ २२ ॥

 पुत्रस्येति । जमदग्नेरिति यावत् । अप्रति[२]कर्मणः-स्वघातुत्के कार्तवीर्ये शापादिप्रतिक्रियारहितस्तथा ॥ २२ ॥

 [३]न्यस्तशस्त्रे पितरि मे तपोबलसमन्विते ।
 अर्जुनो विदधे मृत्युं प्राकृतां बुद्धिमास्थितः ॥ २३ ॥


  1. संन्या-सर्वत्र.
  2. कर्मा-इति स्यात्.
  3. यद्यपि महाभारते (वन. ११७) ब्रह्माण्डपुराणे (३-४५) च कार्तवीयार्जुन पुत्रैः शूरसेनादिभिर्जमदग्निर्हत इति कथ्यते--अथापि ब्रह्माण्डपुराणे कथाक्रम एवं दृश्यते । कदाचित् कार्तवीर्यार्जुन: मृगयार्थ वनं गतः तत्र जमदग्निना कामधेनुसहायेन ससैन्यः सत्कृतः। प्रतिनिवर्तनकाले स्वमंत्रिणं चन्द्रगुप्तं तद्धन्वानयनाथ प्रेषयामास । यदा च जमदग्निर्धेनुं न ददौ, तदा सः जमदग्निं कशादिमि तप्रायं कृत्वा गतः । तदैव च परशुरामो बहिर्गतः प्रत्यागच्छत् । तं दृष्टा तन्माता रेणुका सोदरताडनं चुकोश । यावच्च रामः न्यरोधत् तावत्येव तया एकविंशतिवारमुदरमताडि । अतो रामेणापि एकविंशतिवारं निक्षत्रीकरणशपथः कृतः । अनन्तरं च भृगुमहर्षिः संजीविनीविद्यया जमदग्निं अजीवयत् । ततश्च परशुरामेण कार्तवीयों हतः । कालान्तरे च कार्तवीर्यपत्राः शूरसेनादयः मृगयार्थ वनं गताः परशुरामानुपस्थितिसमये जमदग्निशिर एव छित्वा गृहीत्वा गताः । तत् शात्वा परशुरामः क्षत्रियरुधिरेण स्वपितृतर्पणं कुर्यामहम ' इति प्रतिजज्ञे । तथैव कृतवांश्चेति । एवञ्चात्र प्रथमं यत् कार्तवीर्येण स्वामात्यद्वारा जमदग्निवधः कृतः सोऽत्र विवक्षितः । महाभारते तु सङ्ग्रहत्वात् द्वितीयवारजमदग्निवध एवं वर्णित इति न विरोधावकाश इति ॥ अप्रतिकर्मण इत्यस्यैव विवरणं-न्यस्तशास्त्र इति.