पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७५ सर्गः]
509
शैवस्य धनुषो भङ्गं व्यडम्बयत गर्वितः

 [१]धनू रुद्रस्तु सङ्क्रुद्धो विदेहेषु महायशाः।
 [२]देवरातस्य राजर्षेर्ददौ हस्ते ससायकम् ॥ २० ॥

 धनू रुद्र इत्यादि । एवं युद्धदशायां सङ्क्रुद्धः पश्चाद्देवप्रार्थनया प्रसन्नो देवेभ्य एव तद्धनुः ससायकं दत्त्वा तच्च वरुणद्वारा विदेहेषु वर्तमानस्य देवरातस्य राजर्षेर्हस्ते ददौ। एवं विशेषव्याख्या तु षट्षष्टितमे 'प्रीतियुक्तस्स सर्वेषां ददौ तेषां महात्मनाम्' इति प्रति एव रुद्रो देवेभ्यो ददावित्युक्तेः । तथाऽग्रे वरुणेन दत्तमिति वक्ष्यमाणत्वाच्च ॥ २० ॥


  1. ननु पूर्वं दक्षयज्ञान्ते रुद्रो देवेभ्यो धनुर्दत्तवानित्युक्तम् । अत्र पुनः देवराताय रुद्रो दत्तवानित्युक्तम्। विश्वामित्राश्रमे मुनिभिः यज्ञे जनकाय देवा ददुरित्युक्तम् । अनसूयासमीपे सीतया जनकाय वरुणेन दत्तमित्युक्तम् । कथमिदं सङ्गच्छते ? श्रयताम्-पूर्वे देवाः त्रिपुरवधाय विश्वकर्मणा निर्मितं धनू रुद्राय ददुः । दक्षयशान्ते विरोधे विष्णुहुंकारेण जम्भितं तत् देवैः प्रार्थितो रुद्रो देवरातस्य हस्ते दत्तवान् । ततः प्रभृति न्यासमावेन मैथिलेषु वर्तमानं तत्स्वत्वेन देवाः वरुणेन जनकायादापयन्निति क्रमः। तेन दक्षयशान्ते धनुदानवचनं देवैर्जनकस्य यशफलत्वेन दानवचनं वरुणेन दत्तत्ववचनं च समंजसं, गो । इदं तु चिन्त्यम्----दक्षयज्ञवधानन्तरं दाक्षायण्याः हिमवत्पुत्रीत्वेन जननम् । ततः स्कन्दोत्पत्ति. । ततस्तेन तारकासुरवधः । त्रिपुरासुराश्च तारकासुरपुत्राः । एवञ्च दक्षयज्ञवधः त्रिपुरासुरवधात्पूर्वमेव स्यात् । दक्षयशवधान्त एव यदि धनुर्दत्तं स्यात् तर्हि त्रिपुरवधः अन्येन धनुषा कृतः स्यात् । तथा सति त्रिपुरघ्नं' इति विशेषणं बाधितम् । यदि च त्रिपुरवधानन्तरमेव दत्तं स्यात् तर्हि दक्षयज्ञकाले दत्तस्ववचनं बाध्येत । अत एवमत्र वक्तव्यम्-दक्षयशान्ते शिवः धनुः देवेभ्यो दत्तवान् । देवाश्च वरुणद्वारा देवराताय न्यासतया ददुः । (वैष्णवमपि धनुः रामः परशुरामात् गृहीत्वा वरुणायैव दत्तवान् इति (बाल. ७७-१) श्रयते ।) अनंतरं तेनैव देवरातात् गृहीतेन त्रिपुरवधः कृतः । तदन्ते च विष्णुशिवयोयुद्धं । ततः पुनर्देवराताय तद्दानमिति । एवं क्रमाङ्गीकारे न कोऽपि विरोधः आपाततः कुत्रचित् विरोधः प्रतीयमानोऽपि पदाक्षरपर्यालोचनायां सुपरिहर एव इति केचित् । परे तु त्रिपराणां तारकपुत्रत्वेऽपि शङ्करसंहितादिपर्यालोचनया प्रथममेव त्रिपुरवधः, अनन्तरं च दक्षयशध्वंस इति त्रिपुरघ्नं' इति विशेषणं युक्तमेवेऽत्याहुः ॥
  2. एतदनंतरं-तद्धनुर्देवरातोऽपि शिरसा गृह्य पूजयत् । भग्नं तन्मनुजश्रेष्ठ त्वया पैनाकमुत्तमम् । इत्यधिकं-ङ..