पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
512
[बालकाण्डः
परशुरामप्रतिष्टम्भनम्

 पितृपैतामहमिति । पितृपितामहक्रमागतमित्यर्थः । उत्तरपदवृद्धिरार्षी । क्षत्रधर्मं पुरस्कृत्येति । ब्राह्मणवच्छान्तिमास्थाय नाहं शक्त इति मा ब्रूहीत्यर्थः ॥ २७ ॥

 योजयस्व धनुश्रेष्ठे शरं परपुरञ्जयम् ।
 यदि शक्नोषि, काकुत्स्थ ! द्वन्द्वं दास्यामि ते ततः ॥ २८ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे पञ्चसप्ततितमः सर्गः

 यदि शक्नोषि तावतापि न त्वां मुञ्चामि । अपि तु ततः अनन्तरं द्वन्द्वयुद्धं प्रदास्यामि । वीर्यपरीक्षणार्थमित्यर्थः । जरा (२८) मानः सर्गः ॥ २८ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे पञ्चसप्ततितमः सर्गः

अथ षट्षष्टितमः सर्गः

[परशुरामप्रतिष्टम्भनम्]

 श्रुत्वा तज्जामदग्न्यस्य वाक्यं दाशरथिस्तदा ।
 गौरवाद्यन्त्रितकथः[१] पितू राममथाब्रवीत् ॥१॥

 अथ रामेण जामदग्न्यसंहारः-श्रुत्वेत्यादि । पितुर्गौरवादिति । पितृसन्निधिगौरवादित्यर्थः । यन्त्रिता-नियमिता [२]कथा उच्चैः कथनं येन स तथा ॥ १ ॥


  1. जामदग्न्यमथा-ङ.
  2. कथा-आत्मश्लाघनं, अधिकभाषणं वा। तेन रामस्य परशुरामवैलक्षण्यमुक्तं भवति ॥