पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७५ सर्गः]
507
शैवचापाच्च वैशिष्ट्यं तस्य चापस्य सोऽब्रवीत्

एतावद्दर्शने सति प्राप्तनिश्चयैः देवैः युद्धादुपरतिं याचितौ देवतानुग्रहाय प्रशमं जग्मतुः ॥ १८ ॥

 [१]जृम्भितं तद्धनुर्दृष्ट्वा शैवं विष्णुपराक्रमैः ।
 [२]अधिकं मेनिरे विष्णुं देवाः सर्षिगणास्तदा ॥ १९ ॥


  1. विष्णुं अधिकं-श्रेष्ठं सेव्यत्वेन मेनिरे । वस्तुतस्तु प्रकृतयुद्धे विष्णोराधिक्यदर्शनात् त्रिपुरवधे शिवस्याधिक्यदर्शनात् तयोः साम्यग्रहणमिति तात्पर्यम् । अधिकमित्यस्य स्वीयपूर्वज्ञानविषयस्वरूपापेक्षयाऽधिकमित्यर्थः-ति. विष्णुमधिकं मेनिरेस्वीकृततत्सत्त्वगुणस्य तत्काले आधिक्यं स्वीचक्रुरित्यर्थः । अत एव त्रिपुरविजयकाले शिवबलस्याधिक्यदर्शनेऽपि नैतेषां संशयोत्पत्तिः......हरिहरयोरैक्यात् तत्तन्यूनाधिक्ययोर्वक्तुमशक्यत्वात् । अत एव ‘एको ह वै रुद्रः ' 'एको ह वै नारायणः' इति श्रुत्योर्न विरोधः....... एतेन 'तमउद्रेकेण कदाचिद्रुद्रस्य पराजयो न दोषायेति वा केनचिदुक्तं प्रत्युक्तम् ' इति भूषणकारोक्तमेव प्रत्युक्तम् । त्रिपुरविजयकाले विष्णोरल्पबलवत्त्वे अस्या एव रीतेस्तैरपि वक्तव्यत्वात्-शि ॥
    तत्-विष्ण्वाधिष्ठानेन पूर्वं त्रिपुरघ्नं धनुः जृम्भितं-विष्ण्वधिष्ठानाभावेन जृम्भितं दृष्ट्वा-न त्वाप्तवाक्यात् श्रुत्वा; ......आधिक्यावबोधनं न पक्षपातमूलमित्याह सर्षिगणा इति। अतीन्द्रियार्थद्रष्टार ऋषयः, तेषां गणाः........ भूयसां स्याद्धलीयस्त्वम्' इति न्यायेन. तत्ज्ञानं न पक्षपातमूलं न वा भ्रान्तिमूलमिति भावः-एतेन तमउद्रेकेण कदाचिद्रुद्रस्य पराजयो न दोषायेति केन चिदुक्तं प्रत्युक्तम् । तमोऽभिभवस्यैवावरत्वनियामकत्वात् । इन्द्रजिता रामपराजयस्तु-'अदृश्यो न शब्दवेधेन वध्यते' इति धर्मप्रवर्तनाय । धर्मसंस्थापनार्थाय हि तदवतार इत्युक्तम् । (अत एव अनन्तरमिन्द्रजिद्धसंगच्छते)। अत्र तु स्वरूपत एव रुद्रस्य पराजयः। किञ्च रुद्रपराजयस्य तमःकृतत्वे देवानामधिकत्वबुद्धिर्न स्यादेव ॥ अयं च धनुर्भङ्गः दक्षयशान्त इति बोध्यम् । अन्यथा 'दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान्' इत्यादिना दक्षयज्ञान्ते रुद्रो देवानां धनुर्ददावित्युक्तं विरुध्येत । अत्रेदमेव धनुत्रिपुरनं, 'त्रिपुरनम्' इत्युक्तत्वात् । एतद्विरुद्धं मेरूधनुष्टुं पुराणान्तरोक्तमनादरणीयम्-गो ।
  2. एतदनन्तरं पूजयित्वा ततो विष्णुमामंत्र्य च पिनाकिनम् । ब्रह्मेन्द्रादीन् पुरस्कृत्य नाकपृष्ठं ययुसदा ॥' इत्यधिकं-ऊ.