पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
506
[बालकाण्डः
वैष्णवधनुःप्रशंसा

लम्बनजां इमां दुश्चिन्तां स्वयमेव भेत्स्यन्त इति विज्ञाय श्रीमच्चतुर्मुखप्रदेशमूर्त्यन्तरभूतयोः रुद्रविष्ण्वोः सत्यसङ्कल्पत्वात् सङ्कल्पशक्तिमदान्तरप्रधानत्वाच्च स्वेच्छया वैरं सञ्जनयामास । अग्निभूतत्त्वयोर्वैरस्य सम्पादनमीषत्करं भगवतो ब्रह्मणः । सत्यवतां वरः-इत्यनेन अस्मदुक्त-सत्यसङ्कल्पत्वमुक्तम् । [१] विजय इति निमित्तसप्तमी ॥१६॥

 [२]तदा तु जृम्भितं शैवं धनुर्भीमपरक्रमम् ।
 हुंकारेण, महादेवः स्तम्भितोऽथ त्रिलोचनः ॥१७॥

 तदा-विरोधसमये । अथ तथाविरोधाद्युद्धकाले हुङ्कारेण जृम्भितामिति । उत्कटरजश्शक्त्यधिष्ठानजो हुङ्कारः, तेन तद्विषयीकृतत्वेन जृम्भितं-सोच्छ्वासमभवदित्यर्थः । 'रजस्सत्त्वं तमश्चैव तमस्सत्त्वं रजस्तथा । अभिभूय प्रभवति' इति न्यायेन उत्कटरजःप्रवृत्तौ तदितरगुणाभिभवस्य स्वाभाविकत्वात्तत्कालमितरगुणप्राधान्यात् भगवांस्त्रिलोचनः स्तम्भितः-स्तंभितपरिकरोऽभूत् ॥ १७ ॥

 देवैस्तदा समागम्य सर्षिसङ्घैः सचारणैः ।
 [३]याचितौ प्रशमं तत्र जग्मतुस्तौ सुरोत्तमौ ॥१८॥


  1. अजय-इति मातृकासु । परन्त्वौचित्यादेवं निवेशितम्
  2. हुंकारेणैव-विष्णोरिति शेषः । जृंभित-शैथिल्यं प्राप्तम् । अथ -धनुर्विजृम्भणानन्तरं त्रिलोचनो महादेवः स्तम्भितः-व्यापाररहितः आसीदिति शेषः । एतेन सत्त्वगुणस्य तदानीं प्राबल्यं सूचितम्-शि ॥ हुंकारेण न स्वाभिमन्त्रितबाणेन, महादेवः-महादेवशब्दो महावृक्षसमाख्यायित इति भावः । त्रिलोचन इत्यनेन तृतीर्थं लोचनमपि निरर्थकं कृतमिति भावः-गो.
  3. एतावत्यर्थे दृष्टे प्राप्तनिश्चयैःर्देवैर्युद्धादुपरतिं याचितौ-ति. अनेन उभयोरपि शान्तियाचनं समर्थितम् ॥
    अत्र शिवस्तंभनानन्तरं तत्प्रशान्तियाचनया तमोगुणोद्रेकसमये स्वीकृततमोगुणस्य विजयो भविष्यति, पुनः सत्त्वगुणोद्रेकसमये स्वीकृतसत्त्वगुणस्य विजयो भविष्यतीत्यनवस्थास्यादिति देवाभिप्रायः सूचितः-शि. किमनेन बालेन ? अनुकम्प्यताम्-इति याचितः
    तन्निग्रहान्निवृत्तः विष्णु: ; रुद्रस्तु स्वामितः पराजयो नास्माकं दोषायेति सान्त्वितः तत्तुरूयस्वाभिमानात् (पराजयनिमित्तशोकाद्वा) निवर्तित इत्यर्थः-गो ।