पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
464
[बालकाण्डः
दशरथाह्वानम्

 मुहुर्मुहुर्मधुरया स्नेहसंयुक्तया गिरा।
 [१]जनकस्त्वां महाराजाऽऽपृच्छते सपुरस्सरम् ॥ ५ ॥

 मैथिलः-मिथिलापुरीश्वरः । पुरस्कृताग्निहोत्रसहितः-साग्निहोत्रपुरस्कृतः, आहिताग्नित्वान्निष्ठायाः परनिपातः । कुशलं-क्षेमम् । अव्ययः-अनपायः । महाराजा आपृच्छत इति पदम् । 'आङिनुपृच्छ्योरुपसङ्ख्यानम्' इत्यात्मनेपदम् । पुरस्सरन्तीति पुरस्सराः-भृत्यास्तत्सहितम् ॥ ५ ॥

 पृष्ट्वा कुशल[२]मव्यग्रं वैदेहो मिथिलाधिपः ।
 कौशिकानु[३]मते वाक्यं भवन्तमिदमब्रवीत् ॥ ६ ॥

 अनुमते-अनुमतकृत्यसाधननिमित्तम् ॥ ६ ॥

 पूर्वं प्रतिज्ञा[४]विदिता वीर्यशुल्का ममात्मजा ।
 राजानश्च कृतामर्षा निर्वीर्या विमुखीकृताः ॥ ७ ॥

 वीर्यशुल्केति प्रतिज्ञा पूर्वं युष्माभिर्विदितेति योजना । विमुखीकृताः इत्यपि विदितम् ॥ ७॥

 सेयं मम सुता राजन् ! विश्वामित्रपुरस्सरैः।
 यदृच्छयाऽऽगतैर्वीरैनिर्जिता तव पुत्रकैः ॥ ९ ॥

 तव पुत्रकैरिति । तव पुत्रेण बालेन सकलजगत्पूज्यरामेणेत्यर्थः । पूजायां बहुवचनम् । कप्रत्ययो बाल्यद्योतकः। जामातृबुध्या च बहुवचनप्रयोगः ॥ ९ ॥


  1. अत्र द्वितीयजनकशब्दः विप्रकृष्टजनकशब्दाविस्मरणार्थः-गो. कं-सुखं यस्मात्स-प्रजासुखदातेत्यर्थः । तादृशो जनकः-रा.
  2. मव्यग्रो-ङ.ज.
  3. मतो-ङ.
  4. विहिता-ङ.