पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६८ सर्गः]
463
जनकस्त्वाजुहावाथ दूतैर्दशरथं नृपम्

अथ अष्टषष्टितमः सर्गः

[ दशरथाह्वानम् ]

 जनकेन समादिष्टा दूतास्ते [१]क्लान्तवाहनाः ।
 [२]त्रिरात्रमुषिता मार्गे तेऽयोध्यां प्राविशन् पुरीम् ॥ १ ॥

 अथ मन्त्रिभिः राजनियोगसम्पादनम्-जनकेनेत्यादि । तिस्रश्च ता रात्रयश्च त्रिरात्रम्, सङ्ख्यादित्वात् रात्रान्तादच् समासान्तः । अत्यन्तसंयोगे द्वितीया, रात्रित्रयं मार्ग उषिताः-कृतवासाः ते दूताः-दौत्यविनियुक्तमन्त्रिण इत्यर्थः ॥ १ ॥

 ते राजवचना[३]द्दूता राजवेश्म [४]प्रवेशिताः।
 ददृशुर्देवसङ्काशं वृद्धं दशरथं नृपम् ॥ २ ॥

 राजवचनात्-जनकोऽस्मानिह प्रेषितवानिति स्वराजसंकीर्तनात् राजदर्शनद्वारभूतात् । राजवेश्म-दशरथवेश्म ॥ २ ॥

 बद्धाञ्जलिपुटाः सर्वे दूता । [५]विगतसाध्वसाः।
 राजानं प्रयता वाक्यमब्रुवन्मधुराक्षरम् ॥ ३ ॥

 विगतसाध्वसा इति । महाराजनियुक्तदूतत्वेन तद्भत्यवत्तत्सन्निधौ भयरहिताः॥ ३ ॥

 मैथिलो जनको राजा साग्निहोत्र [६]पुरस्कृतः।
 कुशलं चाव्ययं चैव सोपाध्यायपुरोहितम् ॥ ४ ॥


  1. ६९तमसर्गे 'गत्वा चतुरहं मार्गं' (श्लो. ७) इत्युक्तदिशा चतुर्दिवससाध्यगमनस्य मार्गस्य दिनत्रयेण गमनात्-क्रान्तवाहना इति ॥
  2. एतदनन्तरं-राज्ञो भवनमासाद्य द्वारस्थानिदमब्रुवन् । शीघ्रं निवेद्यतां राज्ञे दूतान्नो जनकस्य च ॥ इत्युक्ता द्वारपालास्ते राघवाय न्यवेदयन् । इत्यधिकम्-ङ.
  3. द्गत्वा ङ.
  4. प्रदुद्रुवुः-ङ.
  5. 'बद्धाञ्जलिपुटाः' इति विशेषणश्रवणजन्यसंशयपरिहाराव विगतसाध्वसा इति॥
  6. पुरस्कृतम्-ङ