पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८ सर्गः]
465
ज्ञात्वा दशरथः सर्वं प्रतस्थे मिथिला पुरीम्

 तच्च राजन् ! धनुर्दिव्यं मध्ये भग्नं महात्मना ।
 रामेण हि महाराज ! महत्यां जनसंसदि ॥ ९ ॥
 अस्मै देया मया सीता वीर्यशुल्का[१]महात्मने ।
 प्रतिज्ञां-[२]कर्तुमिच्छामि तदनुज्ञातुमर्हसि ॥ १० ॥

 प्रतिज्ञां-वीर्यशुल्कतया सीतादानप्रतिज्ञापूरणं इत्यर्थः ॥ १० ॥

 सोपाध्यायो महाराज ! पुरोहितपुरस्सरः ।
 शीघ्रमागच्छ, भद्रं ते, द्रष्टुमर्हसि राघवौ ॥ ११ ॥

 महाराज शीघ्रमागच्छेति योजना ॥ ११ ॥

 [३]प्रीतिं च मम राजेन्द्र ! निर्वर्तयितुमर्हसि ।
 [४]पुत्रयोरुभयोरेव प्रीतिं त्वमपि लप्स्यसे ॥१२॥

 उभयोरेव पुत्रयोः, न केवलं रामस्य । प्रीतिमिति । विवाहकल्याणजप्रीतिमित्यर्थः । एवं च लक्ष्मणायोमिळाप्रदानमपि सूचितम् । तथाऽग्रे वक्ष्यति ॥ १२ ॥

 [५]एवं विदेहाधिपतिर्मधुरं वाक्यमब्रवीत् ।
 विश्वामित्राभ्यनुज्ञातः शतानन्दमते स्थितः ॥ १३ ॥

 अभ्यनुज्ञात इति । अभ्यनुज्ञातकन्यापदानकृत्य इत्यर्थः ॥ १३ ॥

 दूतवाक्यं तु तच्छ्रुत्वा राजा परमहर्षितः ।
 वसिष्ठं वामदेवं च मन्त्रिणोऽन्यांश्च सोऽब्रवीत् ॥ १४ ॥
 गुप्तः कुशिकपुत्रेण कौसल्यानन्दवर्धनः ।
 लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्यसौ ॥ १५ ॥


  1. ममात्मजा-ङ.
  2. तर्तु-ङ.ज.
  3. प्रतिज्ञां मम-ङ.ज.
  4. पुत्री च पुत्रश्च-तयोः-मत्पुत्र्यां त्वत्पत्रे चेत्यर्थः। यद्वा स्नुषाऽपि पुत्रीत्येव गृह्यते । यद्वा लक्ष्मणायोर्मिलाप्रदानं सिद्धं कृत्वैवमुच्यते-गो.
  5. 'एतदनन्तरं' इत्युक्त्वा विरता दूताः राजगौरवशङ्किताः' इत्यधिक-ड.