पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
460
[बालकाण्डः
धनुर्भङ्गः

 हे ब्रह्मन् इदं धनुर्वरं दृष्टं । इदं पाणिना च स्पृशामि । एतावता दर्शनौत्सुक्यं निवृत्तं । अतः परमेतद्धनुषि तोलनादवपि यत्नवांश्च भविष्यामि किम् ? इत्यपृच्छदिति शेषः ॥ १४॥

 बाढमित्यब्रवीद्राजा मुनिश्च समभाषत ।

 अथ गुर्वनुमतिः-बाढमित्यादि । राजा च समभाषत, स मुनिश्च समभाषतेति प्रत्येक योजना ॥ १४ ॥

 [१]लीलया स धनुर्मध्ये जग्राह वचनान्मुनेः॥ १५ ॥
 पश्यतां नृसहस्राणां बहूनां रघुनन्दनः ॥

 मध्ये-मध्यप्रदेशे भारवस्तुनो मध्यप्रदेशे गृहीत्वोद्धारो महाबलसाध्यः। पश्यतां-पश्यत्स्विति यावत् । भावलक्षणा षष्ठी ॥ १६ ॥

 आरोपयत्सधर्मात्मा सलीलमिव तद्धनुः ॥ १६ ॥
 आरोपयित्वा धर्मात्मा [२]पूरयामास तद्धनुः।
 तद्वभञ्ज नरश्रेष्ठो धनुमेध्ये महायशाः॥ १७ ॥

 इव शब्द एवार्थे । सलीलमेव-लीलाधनुर्वदप्रयासमेवेत्यर्थः । पूरयामासेति। आकर्णमाकृष्टवानित्यर्थः । तद्धनुर्मध्ये बभञ्जेति । मध्ये गृहीत्वाऽऽकर्षणात् उभयनमनवेगेनेति शेषः ॥ १७ ॥

 तस्य शब्दो महानासीत् निर्घातसमनिस्वनः।
 भूमिकम्पश्च सुमहान् पर्वतस्येव दीर्यतः ॥१८॥


  1. मध्ये-मध्यप्रदेशे–जग्राह-पादाङ्गुलेनोन्नतं कृत्वा करेण जग्राह । तदुक्तं पाद्मे-'रामोऽपि तद्धनुः कोटिं स्पृष्टा पादाङ्गुलात्ततः । उन्नतं चापमारोप्य बभञ्जे मोहिता जनाः' इति-ति.
  2. ननु उक्तरित्या महोन्नतस्य धनुषः कथं बालेनारोपणं संभवति ? अग्रस्पर्शाभावादिति चेत्-उच्यते-आश्चर्यशक्तिकस्य रामस्य करस्पर्शादेवावानतं धनुः-गो. वस्तुतस्तु-धनुष उन्नतत्वेऽपि ज्याया आकर्षणेन धनुषः नमनं संभवत्येवेति ॥