पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६७ सर्गः]
459
कौशिकप्रेरितो रामः पूरयामास तद्धनुः

 नैतत्सुरगणा[१]स्सर्वे नासुरा न च राक्षसाः।
 गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः॥ ९ ॥
 क्व गतिर्मानुषाणां च धनुषोऽस्य [२]प्रपूरणे।
 आरोपणे समायोगे वेपने तोलनेऽपि वा ॥ १० ॥
 तदेतद्धनुषां श्रेष्ठमानीतं मुनिपुङ्गव !
 दर्शयैतन्महाभाग ! अनयोः राजपुत्रयोः ॥ ११ ॥

 प्रपूरणं-प्रसज्य धनुष आकर्णाकर्षणम् । इदं पूर्णबलम् । एतदधः-यत् आरोपणादि । आरोपणं-सज्यकरणं । समायोगः-शरेण संयोजनं । वेपनं-ज्यास्फालनं । तोलनं वर्णितचरम् । तोलनादिकृत्ये मानुषाणां क्व गतिः-क्व सामर्थ्यम्। अथापि त्वदाज्ञया आनीतं एतत् धनू राजपुत्रयोः [३]प्रदर्शनाय ॥ ११ ॥

 विश्वामित्रः स धर्मात्मा श्रुत्वा जनकभाषितम् ।
 वत्स ! राम ! धनुः पश्य इति राघवमब्रवीत् ॥ १२ ॥
 महर्षेर्वचनाद्रामो यत्र तिष्ठति तद्धनुः।
 मञ्जूषां तामपावृत्य दृष्ट्वा धनुरथाब्रवीत् ॥ १३ ॥

 अपावृत्य-अपगतावरणां कृत्वा ॥ १३ ॥

 इदं धनुर्वरं ब्रह्मन् ! संस्पृशामीह पाणिना ।
 यत्नवांश्च भविष्यामि [४]तोलने पूरणेपि वा ॥ १४ ॥


  1. शशक्ताः-ङ.
  2. प्रपूरण-आकर्णाकर्षणं, आरोपणं-सज्यीकरणं, समायोगः-शरेण योजनं, वेपनं-ज्यस्फालनं, तोलनमुक्तम्-ति. प्रपूरणे-नम्रीकरणे, आरोपणे मौर्व्याः संयोजने, समायोगे-शरेण योजने, वेपने-मौर्व्याकर्षणे-गो।
  3. प्रदर्शय-ग.
  4. वेपने-ङ.