पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
458
[बालकाण्डः
धनुर्भङ्गः

शेषः । [१]कश्चिदष्टचक्रां-अष्टचक्रशकटयुक्तामित्याह । तदा नृणां शतान्यूहुरिति न सङ्गच्छते । अपि च शकटेनानयने बलीवर्दादय एव नियोज्याः, न तु पञ्चसहस्रपुरुषाः ॥ ४ ॥

 तामादाय तु मञ्जूषां आयसीं यत्र तद्धनुः ।
 सुरोपमं ते जनकमूचुर्नृपतिमन्त्रिणः ॥५॥
 इदं धनुर्वरं राजन् ! पूजितं सर्वराजभिः ।
 मिथिलाधिप ! राजेन्द्र ! [२]दर्शनीयं [३]यदीच्छसि ॥६॥

 दर्शनीयं-प्रदर्शनीयं इच्छसि यदि । प्रदर्शयेति शेषः ॥६॥

 तेषां नृपो वचः श्रुत्वा कृताञ्जलिरभाषत ।
 [४] विश्वामित्रं महात्मानं, तौ चोभौ रामलक्ष्मणौ ॥ ७ ॥

 उभौ रामलक्ष्मणौ तद्विषयकधनुःप्रदर्शनमुद्दिश्य विश्वामित्रमभाषतेति योजना ॥ ७ ॥

 इदं धनुर्वरं ब्रह्मन् ! [५]जनकैरभिपूजितम् ।
 राजभिश्च महावीर्यैः [६]अशक्तैः पूजितं पुरा ॥८॥

 राजभिश्चेति । अन्यैरपीति शेषः । अशक्तैः-तोलनादिव्यापाराशक्तैः। पूजितं-ऐश्वरत्वादीश्वरवदेव केवलं पूजितं इत्यर्थः ॥ ८ ॥


  1. गोविन्दराजः । परन्तु तत्र-'समूहुः-आचकर्षुः' इति व्याख्यातम् ।
  2. यत् धनुः दर्शनीयमिच्छसि तदिदं धनुः आनीतमिति शेषः-गो.
  3. यदिच्छसि-ङ.
  4. महात्मानं विश्वामित्रं तौ रामलक्ष्मणौ च अभाषत-शि. परन्तु उत्तरश्लोकेषु विश्वामित्रस्यैव सम्बोधनात् कतककृताऽन्यथा व्याख्यातम् ।
  5. जनकैः-तद्वंश्यैः । पूरितुमशक्तैः राजभिस्तु जनकैः-देवरातातिरिक्तैः पूजितं-ति । राजभिः सीतार्थिभिः पूजितं अहोमहासारमैश्वरं धनुरिति-गो.
  6. अशक्यं पूरितुं-ङ.