पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६७ सर्गः]
457
जनकस्याज्ञया भृत्या आनिन्युस्तत्र तद्धनुः

अथ सप्तषष्टितमः सर्गः

[धनुर्भङ्ग ]

 जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः ।
 धनुर्दर्शय रामाय इति होवाच पार्थिवम् ॥ १ ॥

 अथ प्रस्तावितकार्यप्रवृत्तिः - जनकस्येत्यादि ।'रामाय इति' इति असन्धिः छान्दसः ॥ १ ॥

 ततः स राजा जनकः [१]सामन्तान् व्यादिदेश [२]ह ।
 धनुरादीयतां दिव्यं गन्धमाल्यविभूषितम् ॥ २ ॥

 सामन्तान् समीपे विद्यमान[३] सचिवानित्यर्थः ॥ २ ॥

 जनकेन समादिष्टाः सचिवाः प्राविशन् पुरीम् ।
 तद्धनुः पुरतः कृत्वा निर्जग्मुः पार्थिवाज्ञया ॥ ३ ॥

 पुरीं प्राविशन्निति । यज्ञवाटादिति शेषः ॥ ३ ॥

 नृणां शतानि पञ्चाशद्व्यायतानां महात्मनाम् ।
 मञ्जूषामष्टचक्रां तां समूहुस्ते कथञ्चन ॥ ४ ॥

 अथ नायकसङ्ख्याविशेष कथनपूर्वं कथंचिदानयनप्रदर्शनेन धनुषो दुर्ग्रहत्वादिवैभवः प्रकाश्यते-नृणामित्यादि । 'नृच' इति नामि न दीर्घः । पञ्चाशच्छतानीति । पञ्चसहस्राणीति यावत् । व्यायताः - दीर्घाः । महात्मानः- हृष्टपुष्टशरीराः । मञ्जूषा –आयसी पेटिका । अष्टचक्रां —अष्टायश्चक्ररक्षाबन्घवतीं । समृहुरिति । अनेकैदीर्घबृहद्वंशदण्डैरिति


  1. सचिवान् -ङ, ज, समेतान्, संयतान् ङ.
  2. 'ह' इति हर्षद्योतकः- शि.
  3. अनन्तरश्लोकानुसारादेवं व्याख्यातम् ।