ततः संवत्सरे पूर्णे क्षयं यातानि सर्वशः ।
साधनानि, मुनिश्रेष्ठ ! ततोऽहं भृशदुःखितः ॥ २२ ॥
क्षयं यातानीति । प्राकारयुद्धवशादिति शेषः ॥ २२ ॥
ततो देवगणान् सर्वान् तपसाऽहं प्रसादयम् ।
ददुश्च परमप्रीताः [१]चतुरङ्गबलास्सुराः ॥ २३ ॥
प्रसादयमिति । प्रासादयमिति यावत् । चतुरङ्गबला इति । चतुरङ्गबलदा अभवन्नित्यर्थः ॥ २३ ॥
ततो भग्ना नृपतयो हन्यमाना दिशो ययुः ।
अवीर्या [२]वीर्यसन्दिग्धाः सामात्याः पापकर्मणः ॥ २४ ॥
अवीर्याः–अर्धवीर्याः । वीर्यसन्दिग्धाः–आहिताग्नित्वान्निष्ठायाः परनिपातः, संदिग्धवीर्याः बलात्कन्याजिघृक्षवस्सर्वे नानादिशो ययुः । समवायं विसृज्येति शेषः ॥ २४ ॥
तदेतन्मुनिशार्दूल ! धनुः परमभास्वरम् ।
रामलक्ष्मणयोश्चापि दर्शयिष्यामि सुव्रत ! ॥ २५ ॥
तदेतदिति । उक्तवृत्तान्तकमित्यर्थः ॥२५॥
यद्यस्य धनुषो रामः कुर्यादारोपणं मुने ।
सुतामयोनिजां सीतां दद्यां दाशरथेरहम् ॥ २६ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे षट्षष्टितमः सर्गः
अचर (२६-१/२) मानः सर्गः ॥ २६ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे षट्षष्टितमः सर्गः