पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६६ सर्गः]
455
यद्धनुर्देवराताय पूर्वं तु गिरिशो ददौ

 तेषां जिज्ञासमानानां [१]वीर्यं [२]धनुरुपाहृतम् ।
 न शेकुर्ग्रहणे तस्य धनुषस्तोलनेऽपि वा ॥ १८ ॥

 वीर्यं-वीर्यशुल्कसाधनभूतम् । तोलनं-भारपरीक्षार्थं हस्तेन चालनम् ॥ १८ ॥

 तेषां वीर्यवतां वीर्यमल्पं ज्ञात्वा महामुने !
 प्रत्याख्याता नृपतयस्तन्निबोध तपोधन ! ॥ १९ ॥

 प्रत्याख्याताः-कन्या न दत्तेति यावत् । तदित्यव्यम् । तस्मादनन्तरं यद्वृत्तान्तं तन्निबोध । बुधिरत्र निशामने (बुद्धेथ विज्ञापने बुद्धेत विज्ञापनीये बुद्धेः वेदने च बुद्धिरच अतो) (?) भौवादिकः, लोट् ॥

 ततः परमकोपेन राजानो नृपपुङ्गव !
 [३]अरुन्धन् मिथिलां सर्वे [४]वीर्यसन्देहमागताः ॥ २० ॥

 अरुन्धन्-उपरोध कृतवन्तः । वीर्यसन्देहं-धनुरारोपलक्षण-वीर्यविषये स्वेषां सामर्थ्यसन्देहं । अतो बलादेव [५]कन्यां ग्रहीष्यामीति न्यरुन्धन्नित्यर्थः ॥ २० ॥

 आत्मानमवधूतं [६]ते विज्ञाय नृपपुङ्गवाः ।
 रोषेण महताऽऽविष्टाः पीडयन्मिथिलां पुरीम् ॥ २१ ॥

 ते सर्वे नृपाः आत्मानं-स्वात्मानं मया अवधूतं–वीर्यशुल्क करणेन तिरस्कृतं विज्ञाय रोषाऽऽविष्टाः पीडयन्-अपीडयन्निति यावत् ॥ २१ ॥


  1. शैवं-ङ.ज. ऐशं-झ.
  2. धनुरुपाहृतं-आनीय स्थापितम्-शि. वीर्य जिज्ञासमानानामित्यन्वयः-गो.
  3. न्यरुन्धन्-ङ.
  4. वीर्यसन्देहं-धनुरारोपलक्षणवीर्यविषये अन्येषां सन्देहविषयत्वं गताः-शि. यद्वा शुल्कत्वेन कल्पिते धनुरारोपणरूपवीर्ये संदेहं-किमनेनास्मदवमाननार्थमेवेदं कल्पितं स्यादिति संशयमित्यर्थः । अत एवानन्तरश्लोकोऽपि संगच्छते ।
  5. प्रत्येकान्वयाभि-प्रायेणैकवचनम् ।
  6. मे-ङ.