पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
454
[बालकाण्डः
शैवधनुःप्रशंसा

 [१]अथ मे कृषतः क्षेत्रं लाङ्गलादुत्थिता, मया ।
 क्षेत्रं शोधयता लब्धा नाम्ना सीतेति विश्रुता ॥ १३ ॥

 'यदर्थमिह तिष्ठति' इति यदुक्तं तत्प्रतिपादयितुं प्रस्तावः-अथ मे क्षेत्रं कृषत इति । अग्निचयनार्थमिति शेषः । 'लाङ्गलं पवीरवम्' इति, 'द्वाभ्यां षड्गवेन कृषति' इत्यादिशास्त्रात् सिद्धं कर्षणं; लाङ्गलात्-लाङ्गलपद्धतेरित्यर्थः । उत्थितेति । कन्येति शेषः । यदेवं क्षेत्रं शोधयता लाङ्गलपद्धतेः मया लब्धा ततस्तन्नाम्ना सीतेति विश्रुता भवति ॥ १३ ॥

 भूतलादुत्थिता सा तु व्यवर्धत ममात्मजा ।
 वीर्यशुल्केति मे कन्या स्थापितेयमयोनिजा ॥ १४ ॥
 भूतलादुत्थितां तां तु वर्धमानां ममात्मजाम् ।
 वरयामासुरागम्य राजानो मुनिपुङ्गव ! ॥ १५ ॥
 तेषां वरयतां कन्यां सर्वेषां पृथिवीक्षिताम् ।
 वीर्यशुल्केति, भगवन् ! न ददामि सुतामहम् ॥ १६ ॥

 एवं यज्ञीयात् भूतलादुत्थिता सा तु ममात्मजा शनैरवर्धत । किं तत इत्यतः- वीर्येत्यादि । उक्तधनुरस्सज्जीकरणादिक्षमं वीर्यमेव शुल्कं-मूल्यं यस्यास्सा तथा, वीर्यशुल्केति यतः केवलं न ददामि-न प्रादाम् ॥ १६ ॥

 ततः सर्वे नृपतयः समेत्य मुनिपुङ्गव !
 मिथिलामभ्युपागम्य [२][३]वीर्यजिज्ञासवस्तदा ॥ १७ ॥

 वीर्यजिज्ञासवः-धनुर्बलजिज्ञासवः । भवन्तीति शेषः ॥ १७ ॥


  1. मे कृषतः-मयि कर्षतीत्यर्थः-गो.
  2. वीर्य जिज्ञा ङ. च. ज.
  3. वीर्यशुल्केयं कन्येति कथिते 'कीदृशं तत् शुल्कभूतं वीर्यम्' इति ज्ञातुमिच्छव आसन्नित्यर्थः ।