पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६६ सर्गः]
453
अब्रवीज्जनकस्तेभ्यः तदा शैवधनुःकथाम्

 [१]दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान् ।
 रुद्रस्तु त्रिदशान् रोषात् सलीलमिदमब्रवीत् ॥ ९ ॥

 तर्हि कैस्तथा दत्त इत्यतः-दक्षेत्यादि । दक्षयज्ञवध इति निमित्तसप्तमी । आयम्येति नमनसज्जीकरणपूर्वकमाकृष्येत्यर्थः । सलीलमिति । अनेन वधविषयाप्रयासो द्योत्यते ॥ ९ ॥

 यस्माद्भागार्थिनो भागान्नाकल्पयत मे सुराः !
 वराङ्गानि महार्हाणि धनुषा [२]शातयामि वः ॥ १० ॥

 भागार्थिन इति । स्विष्टकृदादियज्ञभागार्थिन इत्यर्थः।[३]वराङ्ग-शिरः ॥ १० ॥

 ततो विमनसः सर्वे देवा वै मुनिपुङ्गव !
 [४]प्रसादयन्त देवेशं, तेषां प्रीतोऽभवद्भवः॥ ११ ॥
 प्रीतियुक्तः स सर्वेषां ददौ तेषां महात्मनाम् ॥

 विमनसः-दीनाः । भवः-रुद्रः । ददाविति । संहारगृहीतधनुरिति शेषः ॥ ११ ॥

 तदेतद्देवदेवस्य धनूरत्नं महात्मनः ।
 [५]न्यासभूतं तदा [६]न्यस्तमस्माकं [७]पूर्वके विभो ॥ १२ ॥

 धनुषां रत्नं धनूरत्नं । पूर्वके इति । देवरात इत्यर्थः ॥ १२ ॥


  1. दक्षयशवध इति निमित्तसप्तमी-ति.
  2. पातयामि नः-ङ.
  3. वराङ्गानि-शिरांसि.
  4. प्रसादयन्ति-ङ.
  5. न्यासभूतं-न्यस्तं-देवैरिति शेषः-गो.
  6. दत्तम-ङ
  7. पू जे-ङ. च. ज.