पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
452
[बालकाण्डः
शैवधनुःप्रशंसा

 पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौ ।
 द्रष्टुकामौ धनुः श्रेष्ठं यदेतत्त्वयि तिष्ठति ॥ ५ ॥

 एतदपि द्रष्टुकामाविति । आगताविति शेषः ॥ ५ ॥

 एतद्दर्शय, भद्रं ते, कृतकामौ नृपात्मजौ ।
 [१]दर्शनादस्य धनुषो यथेष्टं प्रतियास्यतः ॥६॥

 कृतकामौ–प्राप्तकामौ ॥ ६ ॥

 एवमुक्तस्तु जनकः प्रत्युवाच महामुनिम् ।
 भ्रूयतामस्य धनुषो यदर्थमिह तिष्ठति ॥ ७ ॥

 एवं धनुःप्रसङ्गे तद्वृत्तान्तं वक्तुमुपक्रमते जनकः-एवमुक्त इत्यादि । अस्य धनुष इति । यद्दिदृक्षितं तस्य धनुष इहागमनादिवृत्तान्तं, इदानीं इह च यदर्थं यत्प्रयोजनाय तिष्ठति, तत्सर्व श्रूयताम् ॥ ७ ॥

 [२]देवरात इति ख्यातो [३]निमेष्षष्ठो महीपतिः।
 [४]न्यासोऽयं तस्य भगवन् ! हस्ते दत्तो [५]महात्मना ।

 निमिः-जनककूटस्थः । तस्य हस्ते दत्तो न्यासः निक्षेपरूपः ॥


  1. अस्य दर्शनादेव कृतकामौ भूत्वा प्रतिवास्यत इत्यन्वयः-गो. अस्य धनुषो दर्शनात् इष्टं-अभीप्सितं यथा-यथावत् प्रतियास्यतः-प्राप्स्यतः-शि.
  2. निमेःनिमिवंशोद्भवस्य-सुकेतोरित्यर्थः किञ्च निमिपुत्रस्य मिथेरेव देवरात इति नामान्तरं 'निमेः षष्ठः' इति पाठे तु निमिं परित्यज्य षष्ठ इत्यर्थः-शि.
  3. निमेर्ज्येष्ठो-ङ.ज.
  4. यद्वा-न्यासः-नितरां आ-समन्तात् अस्यन्तेरिपवो येन सः,शत्रुनाशक इत्यर्थः, 'युक्तश्चायमर्थः अन्यस्वामिके वस्तुनि स्वातन्त्रयानुपपत्तेः। अत एव तनुर्भजनादिविषयिणी प्रवृत्तिर्नृपतेः संगच्छते-शि.
  5. महासनः-ङ.