अथ षट्षष्टितमः सर्गः
[शैवधनुःप्रशंसा]
[१]ततः प्रभाते विमले कृतकर्मा नराधिपः ।
विश्वामित्रं महात्मानं आजुहाव सराघवम् ॥ १ ॥
अथ जगत्पितुः ब्रह्मणो रामस्य जगन्मातृजानकीगायत्रीसंयोजनाय विश्वामित्रस्य प्रस्तावः-ततः प्रभात इत्यादि ॥ १ ॥
तमर्चयित्वा धर्मात्मा शास्त्रदृष्टेन कर्मणा ।
राघवौ च महात्मानौ तदा वाक्यमुवाच ह ॥ २ ॥
कर्मणेति । अर्घ्यपाद्यादिलक्षणेनेत्यर्थः ॥ २ ॥
भगवन् ! स्वागतं तेऽस्तु [२]किं करोमि तवानघ !
भवानाज्ञापयतु मां आज्ञाप्यो भवता ह्यहम् ॥ ३ ॥
आज्ञापेर्ण्यन्तात् 'अचो यत्' इति यत्, पाक्षिकामित्वादह्रस्वः, आज्ञापयितुं योग्य इत्यर्थः । भवतेति । 'कृत्यानां कर्तरि वा' इति पाक्षिकी तृतीया ॥ ३ ॥
एवमुक्तस्तु धर्मात्मा जनकेन महात्मना ।
प्रत्युवाच मुनिर्वीरं वाक्यं वाक्यविशारदः ॥ ४ ॥
[३]वीरं-जनकं प्रतीति योजना । वीरं-रामं तत्प्रयोजनमुद्दिश्य ॥
- ↑ अथ स्वयमेव समस्तजनरक्षणावसरप्रतीक्षो भगवान् देवशरणागतिं व्याजीकृत्य रावणवधायावतीर्णः, तदवान्तरोपायभूतां वेदवत्यवतारे स्वतः कृतसङ्कल्पां लक्ष्मी 'तुल्यशीलवयोवृत्ताभिजनेनैव कन्या वरणीया इत्यमुमर्धविशेषं प्रवर्तयिष्यन् जनककुलेऽवतार्य तत्परिणयनाय यतत इत्याह-तत इत्यादिना-गो.
- ↑ किङ्करोऽस्मि-ङ.
- ↑ एतद्व्याख्यारीत्या मूले 'प्रत्युवाच मुनिवरं वीरं वाक्यविशारदः' इति पाठेन भाव्यम् ।