पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६७ सर्गः]
461
तद्भग्नं ; वीर्यशुल्कां तु सीतां प्राप स राघवः

 निपेतुश्च नराः सर्वे तेन शब्दन मोहिताः
 वर्जयित्वा मुनिवरं राजानं तौ च राघवौ ॥ १९ ॥

 मुनिवरः-विश्वामित्रः। राजा-जनकः ॥ १९ ॥

 प्रत्याश्वस्ते जने तस्मिन् , राजा विगतसाध्वसः।
 उवाच प्राञ्जलिर्वाक्यं वाक्यज्ञो मुनिपुङ्गवम् ॥ २० ॥

 विगतसाध्वस इति । [१]रामेणापि धनुषः अनारोपे अयमपि मे जामाता न सिद्धयेदिति या भीस्थिता सा गतेत्यर्थः ॥ २० ॥ भगवन् ! दृष्टवीर्यो मे रामो दशरथात्मजः। अत्यद्भुतमचिन्त्यं च न तर्कितमिदं मया ॥ २१ ॥ न तर्कितमिति । एतदारोपणसंभावनमपीति शेषः ॥ २१ ॥

 [२]जनकानां कुले कीर्तिमाहरिष्यति मे सुता।
 सीता भर्तारमासाद्य रामं दशरथात्मजम् ॥ २२ ॥
 [३]मम सत्या प्रतिज्ञा च वीर्यशुल्केति कौशिक !
 सीता प्राणैर्बहुर्मता देया रामाय मे सुता ॥ २३ ॥

 प्राणैरिति पञ्चम्यर्थे तृतीया, प्राणेभ्य इति यावत् ॥ २३ ॥


  1. 'वर्जयित्वा राजानं ' इत्युक्तत्वात् साध्वसमेवंरूपं व्याख्यातम् । प्रथमं रामदर्शनसमय एव जनकस्य 'अयं मम जामाता स्याद्वा' इत्याशाऽऽसीदिति 'समुपस्थितयौवनौ' (५०-१९) इत्यादितद्वाक्यरेवावगम्यते । अत एव धनुर्दिदृक्षापात्रे विश्वामित्रेण कथितेऽपि जनकः- 'यद्यस्य धनुषो रामः कुर्यादारोपणं' इत्याद्याहेति भावः ॥
  2. जनकानां 'अनन्तं बत मे वित्तं यस्य मे नास्ति किञ्चन । मिथिलायां प्रदीप्तायां न मे किञ्चित्प्रदह्यते॥ इति प्रोक्तनिरतिशयकीर्तिमतामपि कुले। भर्तारं-भरणदक्षं 'वित्तमिच्छन्ति मातरः' इत्युक्तधनवन्तं-, राम-रूपमिच्छन्ति कन्यकाः।' इत्युक्तरूपवन्तं, 'दशरथात्मजं' 'बान्धवाः कुलमिच्छन्ति' इत्युक्तरीत्या बन्धुकांक्षितं च-गो.
  3. सीता वीर्यशुल्केति मम प्रतिज्ञा सत्या जाता ॥