पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६५ सर्गः]
449
श्रुत्वा कौशिकवृत्तान्तं सर्वे मुमुदिरे तदा



 एवमुक्त्वा महातेजा विरराम द्विजोत्तमः ॥ २९ ॥
 शतानन्दवचः श्रुत्वा रामलक्ष्मणसन्निधौ ।
 जनकः प्राञ्जलिवाक्यमुवाच कुशिकात्मजम् ॥ ३० ॥
 धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गव !
 यज्ञं काकुत्स्थसहितः प्राप्तवानसि धार्मिक ! ॥ ३१ ॥
 पावितोऽहं त्वया ब्रह्मन् ! दर्शनेन महामुने !
 विश्वामित्र ! महाभाग ! ब्रह्मर्षीणां वरोत्तम ! ॥ ३२ ॥
 गुणा बहुविधाः प्राप्ताः तव सन्दर्शनान्मया ।

 पावितः-कृतपावनः ॥३२॥

 विस्तरेण च ते ब्रह्मन् ! कीर्त्यमानं महत्तपः ॥ ३३ ॥
 श्रुतं मया महातेजः ! रामेण च महात्मना ।
 [१]सदस्यैः प्राप्य च सदः श्रुतास्ते बहवो गुणाः ॥३४॥

 गुणाः-कर्मज्ञाननिष्ठाविशेषलक्षणाः । सदस्याः-विधिदर्शिनः। तैश्च दैवात् सदः प्राप्य ते गुणाः श्रुताः ॥ ३४ ॥

 अप्रमेयं [२]तपस्तुभ्यं अप्रमेयं च ते बलम् ।
 [३]अप्रमेया गुणाश्चैव नित्यं ते कुशिकात्मज ! ॥ ३५ ॥

 तुभ्यमिति । तवेति यावत् ॥ ३५ ॥

 तृप्तिराश्चर्यभूतानां [४]कथानां नास्ति मे विभो !
 कर्मकालः, मुनिश्रेष्ठ ! लम्बते रविमण्डलम् ॥ ३६ ॥

 कथानां तृप्तिरिति । श्रवण इति शेषः । कर्मकाल इति । अतिवर्तत इति शेषः ॥ ३६॥


  1. सदः प्राप्य स्थितैः सदस्यैश्च ते गुणाः श्रुताः-गो.ति.
  2. तव तपः-ङ.
  3. एतदनन्तरं-पितामहस्य च यथा यथा चैव ह्युमापतेः । इत्यधिकं-ङ.
  4. 'पूरण गुण' इति तृतीयार्थे षष्ठी-गो.