एवमुक्त्वा महातेजा विरराम द्विजोत्तमः ॥ २९ ॥
शतानन्दवचः श्रुत्वा रामलक्ष्मणसन्निधौ ।
जनकः प्राञ्जलिवाक्यमुवाच कुशिकात्मजम् ॥ ३० ॥
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गव !
यज्ञं काकुत्स्थसहितः प्राप्तवानसि धार्मिक ! ॥ ३१ ॥
पावितोऽहं त्वया ब्रह्मन् ! दर्शनेन महामुने !
विश्वामित्र ! महाभाग ! ब्रह्मर्षीणां वरोत्तम ! ॥ ३२ ॥
गुणा बहुविधाः प्राप्ताः तव सन्दर्शनान्मया ।
पावितः-कृतपावनः ॥३२॥
विस्तरेण च ते ब्रह्मन् ! कीर्त्यमानं महत्तपः ॥ ३३ ॥
श्रुतं मया महातेजः ! रामेण च महात्मना ।
[१]सदस्यैः प्राप्य च सदः श्रुतास्ते बहवो गुणाः ॥३४॥
गुणाः-कर्मज्ञाननिष्ठाविशेषलक्षणाः । सदस्याः-विधिदर्शिनः। तैश्च दैवात् सदः प्राप्य ते गुणाः श्रुताः ॥ ३४ ॥
तुभ्यमिति । तवेति यावत् ॥ ३५ ॥
तृप्तिराश्चर्यभूतानां [४]कथानां नास्ति मे विभो !
कर्मकालः, मुनिश्रेष्ठ ! लम्बते रविमण्डलम् ॥ ३६ ॥
कथानां तृप्तिरिति । श्रवण इति शेषः । कर्मकाल इति । अतिवर्तत इति शेषः ॥ ३६॥