पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
448
[बालकाण्डः
ब्रह्मर्षित्वप्राप्तिः

 ब्रह्मर्षिस्त्वं न सन्देहः [१]सर्वं सम्पत्स्यते तव ॥२५॥
 इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथाऽऽगतम् ।

 सर्वं-ब्राह्मण्यं । जन्मसंस्कारजपध्यानसन्ताननिरन्तरोपासनजनितनिजतत्त्वानुसन्धानलक्षणैः श्रीमद्योगभानुप्रतिपादितैस्सर्वैः ब्राह्मण्यसाधनैस्सम्पन्नो भविष्यसीत्यर्थः । इत्युक्त्वेति । यथा वसिष्ठेन भगवतोक्तं, एवमेव देवताश्चोक्त्वेत्यर्थः ॥ २५॥

 विश्वामित्रोऽपि धर्मात्मा लब्ध्वा ब्राह्मण्यमुत्तमम् ॥२६॥
 [२]ब्रह्मर्षिं पूजयामास वसिष्ठं जपतां वरम् ।
 कृतकामो महीं सर्वां चचार तपसि स्थितः ॥ २७॥

 ब्रह्मर्षि पूजयामासेति। [३]सपरिकरस्य मे सत्कारद्वारा ब्रह्मर्षिताप्राप्त्यनन्तरतपस्साधनौन्मुख्यसम्पादनेन कृतार्थितोऽस्मि भवतेति पूजयामासेत्यर्थः । चचारेति । विश्वामित्र इति शेषः ॥२७॥

 एवं त्वनेन ब्राह्मण्यं प्राप्तं राम ! महात्मना ।
 एष राम ! मुनिश्रेष्ठ एष [४]विग्रहवांस्तपः ॥२८॥
 एष धर्मपरो नित्यं वीर्यस्यैष परायणम् ।

 अथ प्रकृते शतानन्दवचनं-एवमित्यादि । एष धर्मपरो नित्यमिति । इदानीमपीति शेषः । वीर्यस्येति । तपोवीर्यस्येत्यर्थः ॥


  1. अनेन त्रिपुरुषपर्यन्तं विश्वामित्रस्य ब्राह्मण्यलाभः सूचितः । एतच्च 'अनृष्यानन्तर्षे' इतिसूत्रे महाभाष्ये स्पष्टम्-ति.(तथा हि भाष्यम्-'विश्वामित्र-स्तपस्तेपे नानृषिः स्यामिति; तत्रभवानृषिः संपन्नः, स पुनस्तपस्तेपे-नानृषेः पुत्रः स्यामिति; तत्रभवान् गाधिरपि ऋषिः संपन्नः, स पुनस्तपस्तेपे-नानृषेः पौत्रः स्यामिति ; तत्रभवान् कुशिकोऽपि ऋषिः संपन्नः' इति).
  2. पूजयामास ब्रह्मर्षिर्व-ङ.
  3. ससैन्यस्येत्यर्थः ।
  4. निग्रहवत्तपः-ङ. ज.