पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६५ सर्गः ]
447
वसिष्ठोऽप्यनुमेने तत् प्रार्थित: सुरसत्तमैः

 [१]ब्रह्मनुग्रहेऽपि ब्राह्मणैस्स्वकुलबहिष्कारे जातिब्राह्मण्याभावात् अन्वर्थब्राह्मण्यमप्यब्राह्मण्यकल्पमित्यभिप्रेत्यानादिब्राह्मणवासिष्ठेनापि ब्राह्मणस्वकुललक्षणब्राह्मणत्वानुमतिं प्रार्थयते-क्षत्रवेदेत्यादि । विवस्वन्तमारभ्य सूर्यवंशानादिपुरोहितत्वात् क्षत्त्रवेदविदां-क्षत्रियाणां शान्तिपुष्ट्यादिप्रयोजनानां अथर्ववेदधनुर्वेदादिविदुषां–श्रेष्ठः, ब्रह्म-ब्रह्मकुलनिजनित्यज्ञान[२]कर्मापेक्षित[३]वेदसारब्राह्मणत्रयी, तद्विदामपि-श्रेष्ठः । उत्तरश्रेष्ठ्यबीजं-ब्रह्मपुत्र इति । एवमिति । ब्रह्मर्षिमिति यावत् । परमोऽयं काम इति । वसिष्ठमुखेन ब्रह्मर्षित्वानुवादरूप इत्यर्थः । यदि कृतः तदैव मद्विषये कृतकृत्या यान्तु ; नान्यथा इत्यर्थः ॥ २३ ॥

 ततः प्रसादितो देवैर्वसिष्ठो जपतां वरः ॥ २४ ॥
 सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत् ।

 ततः-एवं विश्वामित्रोक्त्यनन्तरमित्यर्थः । प्रसादित इति । भगवता ब्रह्मणा सर्वैरस्माभिश्च लोकहितायानुमतत्वात् भवताऽपि तद्ब्रह्मर्षित्वमनुमन्तव्यमित्यनु[४]नीत इत्यर्थः । जपतां वर इति सर्वतो वसिष्ठविशेषणं । 'छन्दोदृक्साधको मुनिः' इति रहस्यादनादितो ब्रह्मविद्यासाधकत्वलक्षणं ब्रह्मविद्याया ऋषित्वं सूचितम् । एवमुक्ताघोरशुद्धब्रह्मविद्याया वसिष्ठ एव ऋषिरद्यापि ; सघोरब्रह्मविद्याया एव विश्वामित्रस्साधक इति तस्या एवेदानीं विश्वामित्र ऋषिः । अथ देवैरनुनीतो वसिष्ठः एवमस्त्वियत् । सख्यं च विश्वामित्रेण चकार । ब्रह्मर्षित्वत एव पुराऽपि विद्वेषरहितः, इदानीं उपेक्षामतिं हित्वा मदीय इति पर्यग्रहीदित्यर्थः ॥ २४ ॥


  1. ब्राह्मा-ग.
  2. धर्माः-ग.
  3. वेदः सारब्राह्मणा त्रयी.
  4. नीतवानिति मातृकासु ।