पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
446
[बालकाण्डः
ब्रह्मर्षित्वप्राप्तिः

 ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक ! ॥ १९ ॥
 दीर्घमायुश्च ते ब्रह्मन् ! ददामि [१]समरुद्गणः ।
 स्वस्ति प्राप्नुहि, भद्रं ते, गच्छ सौम्य ! [२]यथासुखम् ॥

 ब्राह्मण्यं प्राप्तवानसीति देवोक्त्यचनन्तरमायुः प्रयच्छति भगवान्-दीर्घमायुरित्यादि । यथासुखमिति । तपस उपरत इति शेषः ॥ २० ॥

 पितामहवचः श्रुत्वा सर्वेषां च दिवौकसाम् ।
 कृत्वा प्रणामं मुदितो व्याजहार महामुनिः ॥ २१ ॥
 [३]ब्राह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथैव च ।
 ओङ्कारश्च वषट्कारो वेदाश्च वरयन्तु माम् ॥ २२ ॥

 ओङ्कारः–ब्रह्मविद्यासाधनम् । वषट्कारः-यज्ञरूपब्रह्मकृत्यसाधनम् । वेदास्तु पूर्वापरविभागेन ब्रह्मकृत्यज्ञानापेक्षिताङ्गोपाङ्गसमस्तपरिकरप्रतिपादकाः । ते सर्वे यथा भगवन्मुखजं वसिष्ठवामदेवादिसहजब्रह्मकुलं वरयन्ति; वृञ् श्नौ, श्नायां वृञ्, णौ वृञ् आवरणे, श्नायां वृङ् संभक्तौ, अतो वरतेः स्वार्थे णिः । वृण्वन्तु एवं स्वप्रतिष्ठात्वेनाङ्गीकुर्वन्तु– स्वेषामुपदेशाध्यापनयाजनेऽनुमतिं कुर्वन्त्वित्यर्थः ॥

 [४]क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदामपि ।
 ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताः  ! ॥ २३ ॥
 यद्ययं परमः कामः कृतो यान्तु सुरर्षभाः ।


  1. भवता एकेनैव अङ्गीकारे किं फलमित्यत्राह-समरुद्गण इति । अत एव उत्तरत्र 'देवताः' इत्युक्तिः सङ्गच्छते ।
  2. यथाऽऽगतम्-ङ.
  3. ब्राह्मणशब्दयोगार्थपौष्कल्येपि न हि मुख्यं ब्राह्मण्यं संभवेदित्यर्थः ।
  4. ब्रह्मवेदविदां-ब्राह्मणैकवेद्यब्रह्मदण्डाभिधवेदाभिज्ञानामपि - शि. ब्रह्मवेदाः-ब्रह्मप्रतिपादका वेदाः वेदान्ताः । यद्वा ब्राह्मणमात्रप्रवचनार्हावेदाः त्रयीरूपाः -गो.