पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६५ सर्गः]
445
ततो ब्रह्माज्ञया सोऽयं ब्रह्मर्षित्वमविन्दत

 ब्रह्मन्न प्रतिजानीम इति । प्रतिक्रियामिह न जानीम इत्यर्थः । नास्तिको जायत इति । उक्तरूपजगत्क्षोभवशान्नास्तिक इव कर्मानुष्ठानशून्यो जायत इत्यर्थः ॥ १४ ॥

 संमूढमिव त्रैलोक्यं संप्रक्षुभितमानसम् ।
 भास्करो निष्प्रभश्चैव महर्षेस्तस्य तेजसा ॥ १५ ॥

 उक्तार्थस्यैव अनुवादपूर्वकमनुष्ठेयांशमाह-संमूढमिवेति । संमूढमिवत्रैलोक्यमिति वृत्तभङ्गः [१]प्राग्वत् ॥ १५॥

 बुद्धिं न कुरुते यावन्नाशे देव ! महामुनिः।
 तावत्प्रसाद्यो [२]भगवान् अग्निरूपो महाद्युतिः॥ १६ ॥

 हे देव ! अतः परं विश्वामित्रो जगत्क्षये यावत् बुद्धिं न कुरुते तावत् प्रसाद्यः-अनुग्राह्यः ॥१६॥

 कालाग्निना यथापूर्वं त्रैलोक्यं दह्यतेऽखिलम् ।
 [३]देवराज्यं चिकीर्षत दीयतामस्य [४]यन्मतम् ॥१७॥

 पूर्वमिति । युगान्तकाल इत्यर्थः । देवराज्यं चिकीर्षेतापि, हिरण्यादिवत् , तदप्यस्य मतं-अभीष्टं दीयताम् ॥ १७ ॥

 ततः सुरगणाः सर्वे पितामहपुरोगमाः ।
 विश्वामित्रं महात्मानं वाक्यं मधुरमब्रुवन् ॥१८॥
 ब्रह्मर्षे ! स्वागतं तेऽस्तु तपसा स्म सुतोषिताः ।

 स्वागतमिति । भद्रमित्यर्थः । स्मेति । [५]सकारलोपश्छान्दसः ॥


  1. आर्ष इत्यर्थः ।
  2. भगवन्-ङ.ज.
  3. देवराज्यं चिकीर्षेत-देवानामाधिपत्यं कर्तुं इच्छेतापि
  4. यन्मनः-ङ.
  5. विसर्गलोप इत्यर्थः ।