पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
444
[बालकाण्डः
ब्रह्मर्षित्वप्राप्तिः

 ततो [१]देवास्सगन्धर्वाः पन्नगासुरराक्षसाः।
 मोहिता[२]स्तपसा तस्य तेजसा मन्दरश्मयः॥ ९ ॥
 कश्मलोपहताः सर्वे पितामहमथाब्रुवन् ।

 कश्मलोपहताः-दुःखोपहताः ॥९॥

 बहुभिः कारणै[३]र्देव विश्वामित्रो महामुनिः ॥ १० ॥
 लोभितः क्रोधितश्चैव तपसा चाभिवर्धते ।
 न ह्यस्य वृजिनं किञ्चिद्दृश्यते सूक्ष्ममप्यथ ॥ ११ ॥

 लोभितः क्रोधितश्चैवेति । अथापि निर्विघ्न इति शेषः । वृजिनंपापं । सूक्ष्मं वृजिनं रागद्वेषरहितेन स्वतस्तत्त्वप्रतिष्ठालक्षणं सर्वभुवि साधारणं नीरागद्वेषनिजचित्तनिजतत्त्वब्रह्मप्रतिष्ठानमेव ब्रह्मलोकाधिकारिब्रह्मर्षिमुख्यलक्षणं, तदस्य संपन्नं; अतो ब्रह्मर्षितानुमतिः कर्तव्या; अन्यथा लोकनाश इत्याहुः ॥ ११ ॥

 न दीयते यदि त्वस्य तपसा यदभीप्सितम् ।
 [४]विनाशयति त्रैलोक्यं तपसा सचराचरम् ॥१२॥

 न दीयत इत्यादि । विनाशयति त्रैलोक्यमिति वृत्तभङ्ग आर्षः ॥१२॥

 व्याकुलाश्च दिशस्सर्वा न च किश्चित्प्रकाशते ।
 सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः ॥ १३ ॥
 प्रकम्पते च पृथिवी वायुर्वाति भृशाकुलः ।
 ब्रह्मन् ! न प्रतिजानिमो [५]नास्तिको जायते जनः ॥१४॥


  1. देवर्षि गन्धर्वाः पन्नगोरग-ङ.
  2. स्तेजसा तस्य तपसा-ङ. झ.
  3. देंवैः-ङ.
  4. विनाशमेति-ङ.
  5. नास्ति कं-सुखं यस्य सः, अत्यन्तव्याकुलत्वेन सुखरहित इत्यर्थः-शि.