पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६५ सर्गः]
443
पुनश्च स महाघोरं तपश्चक्रे सुदुष्करम्

 आधूतं-कम्प्यमानम् । आन्तरं-अन्तःकरणम् । निश्चयंक्रोधाकरणविषयकम् ॥ ३ ॥

 तस्य वर्षसहस्रस्य व्रते पूर्णे महाव्रतः ॥ ४ ॥
 भोक्तुमारधवानन्नं तस्मिन् काले रघूत्तम !
 इन्द्रो द्विजातिर्भूत्वा तं सिद्धमन्नमयाचत ॥ ५ ॥

 तस्य वर्षसहस्रस्येति । व्यधिकरणे षष्ठ्यौ । सिद्धम्-पक्वम् ॥

 तस्मै दत्त्वा तदा सिद्धं सर्वं विप्राय निश्चितः ।
 निश्शेषितेऽन्ने भगवानभुक्त्वैव महातपाः ॥ ६ ॥
 [१]न किंचिदवदद्विप्रं मौनव्रतमुपस्थितः ।

 निश्चित इति । तपस्सिद्धये सर्वथैव दातव्यमेवेति निश्चयवान् इत्यर्थः । अन्ने निश्शेषित इति । निश्शेषतो दत्त इति यावत् । अभुक्तैवेति । पुनः पक्वाऽभुक्त्वैवेत्यर्थः ॥ ६ ॥

 अथ वर्षसहस्रं वै नोच्छ्वसन्मुनिपुङ्गवः ॥ ७ ॥
 तस्यानुच्छ्वसमानस्य मूर्ध्नि [२].धूमो व्यजायत ।
 त्रैलोक्यं [३]येन संभ्रान्तमा[४]दीपित इवाभवत् ॥ ८ ॥

 येनेति । धूमेनेत्यर्थः । आदीपितमिति । दीपेर्ण्यन्तान्निष्ठा । यथा आदीपितः-तापितः पुमान् सम्भ्रान्तो व्याकुलितो भवति, तद्वत्रैलोक्यं सम्भ्रान्तमभूदित्यर्थः ॥ ८ ॥


  1. एतदनन्तरं 'तथैवासीत्पुनमौनमनुच्छ्रासं चकार सः' इत्यधिकं-ङ..
  2. धूम इति । धूमकेतुरित्यर्थः-अग्निरिति यावत् । अत एवाग्रे ‘आतापितमिव इति वक्ष्यति । अयं शुद्धसत्त्वप्रभवोऽग्निः इतरेषां रजस्तमः प्रधानानां-देवादीनां तापजनक इति बोध्यम्-ति
  3. येन धूमेन संभ्रान्तं-उद्वेगं प्रापितं त्रैलोक्यं आदीपितमिव-सन्तापितमेवाभवत्-शि.
  4. दीपितमिवा-ङ, तापितमिवा-ज.