पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
442
[बालकाण्डः
ब्रह्मर्षित्वप्राप्तिः

 [१]एवं वर्षसहस्रस्य दीक्षां स मुनिपुङ्गवः ।
 चकाराप्रतिमां लोके प्रतिज्ञां रघुनन्दन ! ॥ २० ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे चतुष्षष्टितमः सर्गः

 एवं दीक्षामिति । अनुछ्वासाभोजनसङ्कल्पमुद्दिश्येति शेषः । अप्रतिमां-निस्तुलां प्रतिज्ञां सर्वथा एवं करिष्यामीत्यध्यवस्यति स्मेत्यर्थः । नख (२०) मानः सर्गः ॥ २० ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे चतुष्षष्टितमः सर्गः


अथ पञ्चषष्टितमः सर्गः

[ ब्रह्मर्षित्वप्राप्तिः ]

 अथ हैमवतीं राम ! दिशं त्यक्त्वा महामुनिः ।
 पूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम् ॥ १ ॥

 अथैवमुत्तरेऽपि चतुर्थव्यूहप्रधानपूर्वमुखप्राधान्येन पूर्वस्यां दिशि तप उपदिश्यते-अथेत्यादि । हैमवतीं -हिमवदुत्तरपार्श्वगां ॥ १ ॥

 मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम् ।
 चकाराप्रतिमं राम ! तपः परमदुष्करम् ॥ २ ॥
 पूर्णे वषसहस्रे तु काष्ठभूतं महामुनिम् ।
 विघ्नैर्बहुभिराधूतं क्रोधो नान्तरमाविशत् ॥ ३ ॥
 स कृत्वा निश्चयं राम ! तप आतिष्ठदव्ययम् ।


  1. वर्षसहस्रस्य–वर्षसहस्रसम्बन्धिनीं दीक्षां-गो. वर्षसहस्रस्य दीक्षां निर्वर्तयितुं अप्रतिमां प्रतिज्ञां चकार-शि.अप्रतिमां प्रतिज्ञां दीक्षां च चकार इति वाऽर्थः ।