पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६४ सर्गः]
441
शशाप रंभां स क्रोधात्,अथ सन्तापमागतः

 अथ कन्दर्पः तस्य महर्षेः वचनं श्रुत्वा निर्गतः, स इन्द्रश्च, महर्षेः वचनं श्रुत्वेति शेषः, निर्गतः ॥ १४ ॥

 कोपेन सुमहातेजास्तपोऽपहरणे कृते ॥ १५ ॥
 [१]इन्द्रियैरजितै राम ! न लेभे शान्तिमात्मनः ।

 इन्द्रियैरजितैरिति । उक्तरीत्या [२]कामक्रोधाभ्यां [३]हृतत्वादेवाजितत्वं । तैर्हेतुभिरित्यर्थः । शान्तिं-नीरागद्वेषनिजात्मप्रतिष्ठालक्षणां ॥

 बभूवास्य[४]पुनश्चिन्ता तपोऽपहरणे कृते ॥ १६ ॥
 [५]नैव क्रोधं गमिष्यामि न च वक्ष्ये कथञ्चन ।
 अथवा नोच्छ्वसिष्यामि संवत्सरशतान्यपि ॥ १७॥

 [६]न च वक्ष्य इति । शापवचनमिति शेषः ॥ १७ ॥

 अहं विशोषयिष्यामि ह्यात्मानं विजितेन्द्रियः ।
 तावत्, यावद्धि मे प्राप्तं ब्राह्मण्यं [७]तपसाऽऽर्जितम् ॥ १८ ।।
 अनुच्छ्वसन्नभुञ्जानः तिष्ठेयं शाश्वतीस्समाः ।

 आत्मानमिति । सेन्द्रियग्रामं शरीरमित्यर्थः ॥ १८ ॥

 न हि मे तप्यमानस्य क्षयं यास्यन्ति  मूर्तयः ॥ १९ ॥

 मूर्तयः-शिरः करचरणाद्यवयवाः न क्षयं यास्यन्ति; अनुच्छ्वासाभोजनयोः तपोऽर्थत्वात् तद्बलेन स्थास्यन्त्येवेति शेषः ॥ १९ ॥


  1. इन्द्रियैः क्षुभितं-ङ.
  2. मेनकाप्रसङ्गे कामः, रंभाप्रसङ्गे क्रोध इत्यर्थः ।
  3. हतत्वा-ग.
  4. मनश्चिन्ता-ङ.
  5. नैवं-ङ.ज.
  6. मौनव्रतं वा विवक्षितम् । अनन्तरस्मिन् सर्गे 'मौनं वर्षसहस्रस्य' इत्यभिधानात् ।
  7. तपसोर्जितम्-ङ.ज.