पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
440
[बालकाण्डः
रम्भाशापः

 सहस्राक्षस्य[१]तत्कर्म विज्ञाय मुनिपुङ्गवः ॥ १० ॥
 रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः ।

 तत्कर्म-तस्या लोभनादिकर्म सहस्राक्षस्य प्रेरणामूलमिति विज्ञाय-युक्त्या निश्चित्य[२]रम्भां शशापेति ॥ १० ॥

 यन्मां [३]लोभयसे रम्भे ! कामक्रोधजयैषिणम् ॥ ११ ॥
 दश वर्षसहस्राणि शैली स्थास्यसि दुर्भगे !

 शैली-शिलाप्रतिमा ॥ ११ ॥

 ब्राह्मणः सुमहातेजाः तपोबलसमन्वितः ॥ १२ ॥
 उद्धरिष्यति रम्भे ! त्वां मत्क्रोधकलुषीकृताम् ।

 ननु स्वस्वामिनियोगतः प्रवृत्तायाः रम्भायाः कोऽपराधः? उच्यते । अत एव सोऽपि अज्ञानात् बतैवं वृथा शापः प्रवृत्त इति पश्चात्तापसहितस्तामनुगृह्णाति-ब्राह्मण इत्यादि ।[४] ब्राह्मणः-ब्रह्मपुत्रः, वसिष्ठ इति यावत् ॥ १२ ॥

 एवमुक्त्वा महातेजा विश्वामित्रो महामुनिः ॥ १३ ॥
 अशक्नुवन् धारयितुं[५]क्रोधं, सन्तापमागतः ।

 [६]सन्तापं-शापनिमित्तपश्चात्तापम् ॥ १३ ॥

 तस्य शापेन महता रम्भा शैली तदाऽभवत् ॥ १४ ॥
 वचः श्रुत्वा च कन्दर्पो महर्षेः, स च निर्गतः ।


  1. तत्सर्वं-ङ.
  2. एतेन-रंभाया इन्द्रस्य प्राणप्रियात्वेन तच्छापतो इन्द्रस्यापि दुःखं सूचितमिति-शि.
  3. क्रोधयसे-ङ.
  4. गोविन्दराजीयानुरोधेनैवमुक्तम्
  5. कोपसंताप-ङ.
  6. तपोव्ययजन्यदुःखेन संतापं-ति.