पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६३ सर्गः]
435
ततो निर्विण्णहृदयः पुनस्तेपे स कौशिकः

 नैष्ठिकीं । निष्ठा-बिन्दुधारणरूपा मुख्या ब्रह्मचर्यनिष्ठा, तद्विषयिणीं बुद्धिं-दृढनिश्चयम् । कौशिकी- विश्वामित्रभगिनी नदी ॥

 [१]तस्य वर्षसहस्रं तु घोरं तप उपासतः ।
 उत्तरे पर्वते, राम ! देवतानामभूत् भयम् ॥ १५ ॥
 आमन्त्रयन् समागम्य सर्वे सर्षिगणाः सुराः ।
 महर्षिशब्दं लभतां साध्वयं कुशिकात्मजः ॥ १६ ॥

 [२]समागम्येति । भगवता ब्रह्मणेति शेषः । महर्षिशब्दं लभतामिति । [३]भगवान्निति शेषः ॥ १६ ॥

 देवतानां वचः श्रुत्वा सर्वलोकपितामहः ।
 अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम् ॥ १७ ॥
 महर्षे ! स्वागतं वत्स ! तपसोग्रेण तोषितः ।
 महत्त्वमृषिमुख्यत्वं ददामि तव कौशिक ! ॥ १८ ॥

 एवं देवतानां प्रार्थनया महर्षिशब्देनैव विश्वामित्रं सम्बोधयति-महर्षे इत्यादि । महत्वमित्यस्यैव विवरणं-ऋषिमुख्यत्वमिति । पूर्वं दत्तर्षिशब्दस्य ते इदानीं महत्वविशिष्टर्षिशब्दवाच्यत्वं ददामीत्यर्थः ॥

 [४]ब्रह्मणस्स वचश्श्रुत्वा [५]विश्वामित्रस्तपोधनः ।

 एवं प्राप्तमहर्षित्वो विश्वामित्रोऽकृतार्थ[६]इत्याह-ब्रह्मण इत्यादि ।

 प्राञ्जलिः प्रणतो भूत्वा[७]प्रत्युवाच पितामहम् ॥ १९ ॥


  1. तस्य वर्षसहस्राणि, तस्य वर्षसहस्रेण- ङ. ज.
  2. समागम्य-समुपसृत्येत्यर्थः ।
  3. भगवन्निति ब्रह्माणं प्रति देवानां सम्बोधनम् ।
  4. एतदनन्तरं 'न विषण्णो न सन्तुष्टो विश्वामित्रस्तपोधनः'
    इत्यधिकं-ङ.झ.
  5. सर्वलोकेश्वरस्य ह-ङ.झ.
  6. आह-ग.
  7. सर्वलोकपितामहम्-ङ. झ.एतदनन्तरं 'प्रत्युवाच ततो वाचं विश्वामित्रो महामुनिः 'इत्यधिकम्- ङ. झ.